Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२४९ यतिजीतकल्पसूत्रे प्रोक्तम् । “ आलोचनाप्रायश्चित्तं विवेकमायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः, स्नातकस्य केवल एको विवेकः।" इति तद्वृत्तौ। अत्र स्नातकस्य केवलविवेकप्रायश्चित्तभणनेन निर्ग्रन्थयोरुपशान्तक्षीणमोहयोरालोचनाविवेकप्रायश्चित्ते द्वेऽविशेषेणैवोक्ते सम्भाव्येते; अन्यथा निर्ग्रन्थे विकल्पद्यमकरिष्यद्; यथा-कुत्रचिन्निग्रन्थे विवेकपायश्चित्तमेव, कुत्रचित्त्वालोचनाविवेकरूपे द्वे इति: न चैवं कचिदुपदर्शित मिति माध्यस्थ्येन पर्यालोच्यम् । तथा चालोचनाप्रायश्चित्तशोध्या द्रव्यविराधना केवलिविलक्षणे क्षीणमोहे शास्त्रसिद्धति द्रव्यतो मृषाभाषणं क्षीणमोहे न भवतीति यद्वचनं तन्निरर्थकमेव । यत्तु तत्रानाभोगहेतुकं सम्भावनारूढं जीवविराधनावत्मृषाभाषणमुपपादितं तत्र दृष्टान्तासिद्धिः, द्रव्यतो जीवविराधनाया तत्रोपपादितखाद्, भगवत्यामपि तत्र जीवविराधनायाः स्पष्टमुक्तत्वाच । तथा च तत्सूत्रं १८ श०-" अणगारस्स णं भंते ! भाविअप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुकुडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावजेजा, तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइआ किरिया कज्जइ ? गो० अणगारस्स णं भविअप्पणो जाव तस्स णं इरियावहिआ किरिया कन्जइ, णो संपराइआ किरिया कज्जइ । केणटेणं भंते ! एवं वुच्चइ ? जहा सत्तमसए संवुड्डद्देसए व जाव अट्ठो णिक्खितो" ति ॥ 'पुरओ 'त्ति अग्रतः, 'दहओ'त्ति द्विधा--अन्तराऽन्तरा पार्श्वतः पृष्ठत. श्वेत्यर्थः, 'जुगमायाए 'त्ति यूपमात्रया दृष्टया, 'पेहाए 'त्ति प्रेक्ष्य ‘रीयं 'ति गतं गमनं 'रीयमाणस्स 'त्ति कुर्वत इत्यर्थः, 'कुक्कुडपोयए' त्ति कुर्कुटादिपोतः, 'वट्टापोयए 'त्ति इह वर्तकः पक्षिविशेषः, 'कुलिंगच्छाए व 'त्ति पिपीलिकादिसदृशः, 'परियावज्जेज 'त्ति पर्यापद्येत-म्रियते । एवं जहा सत्त मसए' इत्यादि। अनेन यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदंत ! एवमुच्यते ? गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवति "-इत्यादि तवृत्तायुक्तम् । .. ___अत्र भावितात्माऽनगार उपशान्तः क्षीणमोहश्च ग्राह्यः, अन्यस्येर्यापथिकीक्रियाऽभावात् , केवलिनश्वानाभोगप्रयुक्तोक्तविशिष्टगमनासम्भवादिति वदन्ति । तथा सम्भावनारूढं मृषाभाषणं द्रव्यभावाभ्यां भिन्नं न कुनाप्युपदर्शितमिति क्षीणमोहे तदभिधानं भवतोऽपूर्वपाण्डित्याभिव्यञ्जकमेव, द्रव्यभावातिरिक्तस्य सम्भावनारूढस्य शशविषाणवदवस्तुत्वात् । वच्च व्यक्तिशक्तिरूपं सम्भवे सम्भाव्ये

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278