Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२४८
त्वादिव्यपदेशो भवति नतु केवलिनः, तस्य कदाचिदपि प्रमादवत्त्वाभावादिति नातिव्याप्त्यादिदोष इत्याहुः ॥
तेषां यद्ययमाशयोऽप्रमत्तसंयतेषु केवलित्वगमकप्राणातिपाताभावादिलिंगानां व्यभिचारः, 'कदाचिदपि ' इति विशेषणेन तद्योग्यताभावानां लिङ्गत्वलाभेन वार्यत इति छद्मस्थलिङ्गेषु ' कदाचिद् ' इति विशेषणं योग्यतास्पष्टत्वार्थमिति; तदा सा योग्यता प्राणातिपातादिप्रागभावरूपा ग्राह्येति केवलिपरीक्षायां क्षपकश्रेणावपूर्वकरणादीनां तदभावात्तेषु व्यभिचारो दुर्वारः । छद्मस्थपरीक्षायां च प्रमत्तस्यैव पक्षत्वे योग्यताग्रहणवैकल्यम्, सर्वेषां तु छमस्थानां पक्षत्वे तेष्वेवासिद्धिरिति किमप्रमत्तादावौपचारिकप्राणातिपातकत्वादिविवक्षया ? इति प्रमत्ताप्रमत्तसाधारणपक्षकछद्मस्थत्वसाधने प्राणातिपातादिलिङ्गेषु ' कदाचिद् ' इति विशेषणेन साध्याधिकरणकिञ्चित्कालावच्छिन्नत्वं देयम्, केवलित्वगमकलिङ्गेषु च साध्याधिकरणयावत्कालावच्छिन्नत्वं देयमिति नोद्देश्यासिद्धिर्न वा व्यभिचार इति विभावनीयम् । यत्तु भावभूतलिङ्गानां न छद्मस्थज्ञानोपयोगित्वमिति । तदसद्, भावभूतानामेव शमादिलिंगानां छद्मस्थानां परनिष्ठसम्यक्त्वज्ञानजनकत्वप्रतिपादनात् । तदुक्तं योगशास्त्रवृत्तौ - " पञ्चभिर्लक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते, लिङ्गानि तु शमसंवेग निर्वेदानुकम्पास्तिक्यस्वरूपाणीत्यादि " । बाह्यपरिणति विशेषादेव तत्र शमादिभाव लिङ्गज्ञानसौलभ्यमिति चेद्, अत्रापि तत एव न भावलिङ्गज्ञानदौर्लभ्यं परीक्षकाणाम् । एतेन छद्मस्थत्वगमकानि लिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति । यच्च क्षीणमोहस्य मृषाभाषणं तच्छद्मस्थज्ञानगोचरत्वेन न लिङ्गम्, द्रव्यतो मृषाभाषणस्य क्रोधाद्यभावेन क्षीणमोहेऽभावादित्यादि यदुक्तं तन्निरस्तम् उक्तरीत्या द्रव्यव्यतिरिक्तस्यापि मृषावादस्य सुपरीक्षकाणां सुग्रहत्वात् । किंच - क्षीणमोहस्य द्रव्यतो मृषाभावणं नास्तीति सर्वशास्त्रविरुद्धम् यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानादिति पश्चाशकवृत्तौ द्रव्यत एव मृषावादस्य क्षीणमोहेऽभिधानात् । अत एव सूक्ष्मप्रमादनिमित्तविराधनयाssलोचनाप्रायश्चित्तं तत्रोक्तम् । तथाहि
,
आलोअणाविवेगो वा नियंठस्स दुवे भवे ।
विवेit r सिणायस्स एमेया पडिवत्तिओ ॥ " त्ति

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278