Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२४६ करणे प्राणातिपातकत्वादयः सर्वेऽपि हेतवः स्वरूपासिद्धतामाप्नुवन्ति, प्राणातिपातादिनिमित्तक्रियाभावेन तस्य प्राणातिपातकत्वाद्यभावात् । यथा हि-कर्मग्रन्यायभिप्रायेण निद्रोदयस्याप्रमत्तादिगुणस्थानेषु सत्त्वेऽपि न तेन प्रमत्तत्वम् , द्रव्यतो निद्राविषयादिवत्त्वस्य प्रमत्तत्वाप्रयोजकत्वात् ; तथा द्रव्यतो जीवविराधनायामप्यप्रमत्ताःप्राणातिपातकानप्रोच्यन्त इति । न चौपचारिकरपारमाथिकैद्रव्यतः प्राणातिपातकत्वादिभिस्त्वत्कल्पितैरपि पारमार्थिकं छद्मस्थत्वं साधयितुं शक्यते, द्रव्यतो विरतिमहाव्रतवत्वादिभिः परिव्राजकेष्वभव्यनिहवादिषु च पारमार्थिकविरतत्वचारित्रित्वादिसाधनप्रसक्तेः । किं च-औपचारिकं प्राणातिपातकत्वं 'यावजीवः सयोगस्तावदारभते' इत्याद्यागमवचनादेव प्रसिद्धव्यभिचारमिति सद्भूतप्राणातिपातकत्वादिभिश्छद्मस्थत्वस्य साधनात् प्रमत्त एवात्र पक्षोकार्यः, तेन न स्वरूपासिद्धिः, तत्र पारमार्थिकानां हेतूनां सत्त्वादिति ।
किंच-'व्यापादनशीलो भवति' इत्यत्र फलनिरपेक्षा वृत्तिः शीलमिति, शीलार्थत्वात् , तस्याश्च स्वभावनिबन्धनत्वात् प्राणातिपातादिस्वभावहेतुसि
यथै प्रमत्त एव पक्षीकर्तव्य इति । न च प्रमत्तत्वादेव तत्र छद्मस्थत्वरूपसाध्यस्यापि प्रतीतत्वात्साध्यत्वाभावः, 'अप्रतीतमनिराकृतमभीप्सितं साध्यम्' इति वचनादिति वाच्यम् , व्यामूढमनसां तव्यामोहनिवृत्यर्थं छद्मस्थत्वस्य सा. ध्यमानत्वोपपत्तेः।
“प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । ___ तव्यामोहनित्तिः स्याद् व्यामूढमनसामिह ॥"इति न्यायावतारवचनात् । यथा हि-सास्नादिमत्वाद् गवि गोत्वसिद्धेऽपि व्यामूढस्य तत्प्रतिपत्त्यर्थ प्रयोगः क्रियते-यथा इयं गौः, सास्नादिमत्वात् , यत्र गोत्वाभावस्तत्र सास्नादिमत्वाभांवो यथा महिष इत्यादि । एवमत्रापि पुरुषविशेषे प्रमत्तत्वाच्छद्मस्थत्वे सिद्धेऽपि व्यामूढस्य ज्ञापनार्थमनुमाने कर्त्तव्ये छद्मस्थत्वस्य साध्यत्वं घटत एवेति । एतेन निद्राविकथादिप्रमादवतश्छद्मस्थत्वेन संशयानुपपत्तेन तत्परिज्ञानाय लिङ्गापेक्षेत्यपि निरस्तम्, उक्तयुक्त्या व्यामोहनिरासार्थं तदुपपत्तेः, विप्रतिपत्यादिना केवलिच्छद्मस्थविशेषज्ञस्यापि संशये सति तत्साधनोपपत्तेश्च । न च सूत्रे प्राणातिपातकत्वादीनां सामान्येन छद्मस्थलिङ्गत्वेन प्रोक्तत्वात् प्रमत्तछमस्थरूपविशेषे व्याख्यायमाने सूत्राशात

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278