Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 257
________________ २४४ तत्प्रतिबन्धकत्वादिति । अत्र च छद्मस्थत्वज्ञापकलिङ्गानां सप्तानामपि मोहनीयकर्मजन्यत्वेन परस्परानुविद्धानां स्वरूपयोग्यतया निश्चयतः सर्वकालीनत्वेऽपि फलोपहितयोग्यतया व्यवहारेणानवरतं नियमाभावोऽप्याद्येषु पञ्चस्वेव, चरमयोस्तु द्वयोलिङ्गयोः सामान्यतः सर्वकालीनत्वेन सूक्ष्मदृशां पुरः स्फूर्त्तिकत्वात्, ताभ्यां छद्मस्थत्वनिर्णयो विवक्षितपरीक्षाकाले सुलभ एव। तथा हि-इच्छाकारादिसाधुसामाचारोपरायणस्य छद्मस्थसंयतस्य गमनागमनस्थितिशयनाशनासनप्रत्युपेक्षणादिक्रियाचक्षुषा पुनः पुनर्निरीक्षणं, (निरीक्ष्य) च यथासम्भवं रजोहरणादिना प्रमार्जन, प्रमृज्य च हस्तपादाद्यवयवानां यथास्थानेऽभ्यसनं त्वक्परावर्त्तनं, तथैव वस्त्रपात्राद्युपकरणानामादाननिक्षेपणम्, प्रमृजतश्च रजोहरणादिक्रियया मक्षिकापिपीलिकादीनां भयत्रासोत्पादनेने तस्ततो नयनं चेत्याद्यनेकप्रकारमनुष्ठानं सम्भावित भाविजीवघा - तादिदोषभयजन्यं काल मधिकृत्या नियतमप्यन्यतमत्किंचिदनवरतं भवत्येव, तत्रापि पिलिकादिजन्तूनां भयत्रासोत्पादनं सावद्यमिति प्रज्ञाप्य जीवघातवर्जनाभिप्रायवतोऽप्यशक्यपरिहारेण तत्प्रतिषेवणं षष्टलिङ्गात्मकं छद्मस्थत्वाभिव्यञ्जकं सामान्यतः सर्वकालीन सुलभमेव । तत्प्रतिषेवणे च संयतो न यथावादी तथा कर्त्तेत्यपि मन्तव्यम्, अशक्यपरिहारेणापि प्रत्याख्यातस्य सावद्यस्य प्रतिषेवणादिति केवलिनोऽपि परीक्षायां विपरीतानि छद्मस्थलिङ्गानि द्रव्यरूपाप्येव ग्राह्याणि, तेषामेव छद्मस्थज्ञानगोचरत्वेनानुमितिजनकत्वात् । यथाहि - छद्मस्थसंयतोऽनाभोगसहकृत मोहनीयवशेन कदाचित्प्राणानामतिपातयिता भवति, परीक्षोपयोगिघात्यजीवानां सम्पर्कस्य तद्विषयकानाभोगस्य च कादाचित्कत्वात् ; तथा केवली न भवतीत्येवं प्राणातिपातादिविपर्ययलिङ्गैर्द्रव्यरूपैः केवलित्वं साध्यमिति । स च केवली द्विविधो ग्राह्यः - सद्भूत केवली, अन्तर्मुहूर्त्तभाविकेवलज्ञानाभिमुखः क्षीणमोहश्च । यथा वद्धदेवायुर्देव गत्यभिमुखत्वेन देवत्वव्यपदेशविषयः प्रवचने प्रतीतः, तथाऽन्तमुहूर्त्तनोत्पत्स्यमानकेवलज्ञानः क्षीणमोहोऽपि केवलिव्यपदेशविषयो भवत्येवेति, तथा ' भाविनि भूतवदुपचारः' इति न्यायात् प्रत्यासन्नभाविपर्यायस्य भूतवद्भणनं युक्तमेव । यथा गर्भस्थोप्यर्हन् शक्रेण भावाहर्त्तया स्तुतः । एवं क्षोणमोहमात्रस्य छद्मस्थवीतरागस्यापि कथञ्चित्केवलित्वव्यपदेशो न दोषावहः । किं च- केवलित्वगमकानि सप्तापि लिङ्गानि मोहनीयक्षयसमुत्थान्येव, 'केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपात

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278