Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 255
________________ २४२ च छद्मस्थस्यैव भवति, स च यैः स्थानयिते तान्याह-'सत्तहिं ठाणेहिं' इत्यादि। सप्तभिः स्थानहेतुभूतेश्छमस्थं जानीयात् । तद् यथा-प्राणानतिपातयिता-तेषां कदाचिद् व्यापादनशीलो भवति । इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिणोरभेदादतिपातयितेति धर्मिनिर्दिष्टः। प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते । केवली हि क्षीणचारित्रावरणत्वानिरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति । इत्येवं सर्वत्र भावना कार्या । तथा मृषा वदिता भवति । अदत्तमादाता-गृहीता भवति । शब्दादीनास्वादयिता भवति । पूजासकारौ-पुष्पार्चनवस्त्राधर्चनेऽनुहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता तद्भावे हर्षकारीत्यर्थः । तथेदमाधाकांदि सावा सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति । तथा सामान्यतो नो यथावादी तथाकारी-अन्यथाभिधायान्यथा कर्त्ता भवति । चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्ति । इत्येतत्पतिपादनपरं केवलिसूत्रं सुगममेवेति ।" ___ अत्रेयं परस्य प्रक्रिया-छद्मस्थसंयतः परीक्षावसरेऽप्रमत्त एव पक्षीकर्तव्यः, तत्रैव चक्षुःपक्ष्मनिपातमपि सूत्रोक्तयतनया कुर्वागे 'किमयं छद्मस्थ उत केवली' इति संशये सति छद्मस्थत(ता)साधनाय लिङ्गापेक्षोपपत्तेः, उक्तस्वरूपरहितस्य तु निद्राविकथादिप्रमादवतश्छद्मस्थत्वेन संशयाभावान परीक्षायां प्रवेश इति न तस्य पक्षत्वम् , आह “छ उमत्यो पुण केवलिकप्पो अपमत्तसंजओ णेओ। सो विअ संजमजोगे उवउत्तो मुत्तआणाए ॥” त्ति। लिंगानि च तत्र पञ्चमहाव्रतातिक्रमापवादानाभोगविषयसप्तस्थानप्रतिपादितानि द्रव्यप्राणातिपातादिरूपाण्येव ग्राह्याणि, नतु भावप्राणातिपातादिरूपाण्यपि, तेषां छद्मस्थज्ञानागोचरत्वेन लिङ्गत्वाभावाद् । लिङ्गं हि छद्मस्थज्ञानहेतवे प्रयुज्यते, तच्च ज्ञातमेव ज्ञापकं नाज्ञातमपीति, तानि च मोहनीयाविनाभावीनि यावदुपशान्तवीतरागं भवन्ति, न परतोऽपि; तत ऊच मोहनीयसत्ताया अप्य भावाद् । आह च "छउमत्थनाणहेऊ लिंगाई दवओ ण भावाओ । ___ उवसंतवीयरायं जा तावं ताणि जाणाहिं ॥" ति । नन्वपूर्वादिषु पञ्चसु गुणस्थानकेषु चतस्रोऽपि भाषा भवन्तीति कर्मग्रन्थे भ

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278