Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२४० चारणादिषु परिदृष्टा जीवविराधनाऽभावलब्धिरनुपजीव्या यदि केवलिनि कल्प्यते, तदा तादृशजवाचारणादिषु परिदृष्टाऽतिशयचरणलब्धिरप्यनुपजीव्या केवलिनि कस्मान्न कल्प्यते ? तस्या उपजीव्यत्वनियमान्न तत्कल्पनं केवलिनि कत्तुं शक्यत इति चेद्, तदेतदन्यत्रापि तुयमिति स्वयमेव विभावय । तस्मानियतयोगव्यापारादेव भगवतां जीवरक्षा, नतु स्वरूपत इत्यवश्यंभाविन्यां जोवविराधनायां न किचिद्वाधकमिति स्थितम् ॥ ८४ ॥ ___ नन्वेवमवश्यभाविन्याऽपि जोवविराधनया केवलिनोऽष्टादशदोषरहितत्वं न स्याद्, हिंसादोषस्य तदवस्थत्वाद् । न 'देवोऽष्टादशदोषरहित एव'-इत्यत्राप्येकान्तवादो जैनानामनिष्ट इति शङ्कनीयम्, अनेकान्तादस्याप्यनेकान्तत्वेनात्रकान्ताभ्युपगमेऽपि दोषाभावादित्याशङ्कायामाह-- दवारंजं दोसं अट्ठारसदोसमज्जयाराम्मि । जो इच्छइ सोइच्छणो दवपरिग्गरं कम्हा ॥५॥
'दहारंभ 'ति । अष्टादशदोषमध्ये यो द्रव्यारम्भं दोषमिच्छति, स द्रव्यपरिग्रह दोष कस्मान्नेच्छति ? तथा च धर्मोपकरणसद्भावाद् द्रव्यपरिग्रहेण यथा न दोषवत्त्वं तथा द्रव्यारम्भेणापि न दोषवत्त्वम् , भावदोषविगमादेव भगवति निर्दोषखव्यवस्थितेरिति भावनीयम् । यच्चोक्तं निर्दोषत्वे भगवतो नानेकान्त इति, तदसद्; दोषविभागकृतानेकान्तस्य तत्राप्यविरोधाद् । यच्चानेकान्तस्यानेकान्तखमधिकरणानियमापेक्षयोद्भावितं तत्केनाभिप्रायेण ? इति वक्तव्यम् , अन्ततः स्वपररूपापेक्षयाऽप्यनेकान्तस्य सर्वत्र सम्भवाद्, अत एवात्मानात्मापेक्षया सर्वत्रानेकान्तो वाचकपुङ्गवेनोक्तः। द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण, आत्मादेशादात्मा भवति, अनात्मा परादेशादिति। अनेकान्तस्यानेकान्तत्वं तु स्याद्वाङ्गसप्तभङ्गीवाक्यघटकैकतरभङ्गावच्छेदकरूपापेक्षया व्यवस्थितम् । अत एव-- ___" भयणा वि हु भइअवा जह भयणा भयइ सबदवाई।
एवं भयणाणियमो वि होइ समयाविराहणया ॥” त्ति सम्मतिगाथायां भजनाऽभजनायाः समयाविराधना । " इमाणं भंते ! रयणप्पभापुढवो किं सासया असासया ? गो! सिय सासया, सिअ असासया " इति । स्याद्वाददेशनायां द्रव्यार्थतया शाश्वत्येव, पर्यायार्थतया त्वशाश्वत्येवेत्यधि

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278