Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 252
________________ २३९ इत्यादि " । कथं तर्हि घातिकर्मक्षयावाप्तलब्धिभाजः केवलिनो जीवविराधनासम्भवः ? एकस्या अपि क्षायिकलब्धेः सर्वक्षायोपशमिक लब्ध्यात्मकत्वेन क्षायोपशमिकलब्धिसाध्यस्य जीवरक्षादिकार्यमात्रस्य साधकत्वात् । सा च क्षायिकी लब्धिर्भगवतो जीवरक्षाहेतुरनुत्तरचारित्रान्तर्भूता द्रष्टव्या । तत्प्रभावादेव न केवलिनः कदाप्यारम्भ इति । तदपि मतमनया दिशा निराकृतं ज्ञातव्यं भवति, लब्धिस्वभावादेव जीवरक्षोपपत्तौ केवलिन उल्लङ्घनादिव्यापारवैयर्थ्यापत्तेरेति भावः ॥ ८२ ॥ दिग्दर्शितमेव दूषणं विकल्प्य स्फुटीकुर्वन्नाह- व्याख्या--- तं खलु नवजीवंतो पमायवं तुह मए जिलो हुका । सेलेसीए विफलं या तस्स नवजीवणानावे ॥ ८३ ॥ तं खलु ' त्ति । तं लब्धिविशेषमुपजीवन् - जीवरक्षार्थं व्यापारयन् खलु निश्चितं जिनः केवली तव मते प्रमादवान् स्याद्, लब्ध्युपजोवनं हि प्रमत्तस्यैव भवतीति शास्त्रमर्यादा । अस्तु तर्हि स लब्धिविशेषोऽ नुपजीवित एव जीवरक्षाहेतुः, क्षायिकीनां हि लब्धीनां न प्रयुञ्जना भवति, तासामनवरतमेकस्वभावेनैव सर्वकालीनत्वात्, तासां च फलवत्त्वमपि तथैव । तदितराणां तु कादाचित्कत्वेन फलवत्वात् प्रयुअति विशेषः - इत्येव ह्यस्मन्मतमित्यत्राहतस्य लब्धिविशेषस्योपजीवनाभावे तु शैलेश्यामपि फलं जीवरक्षारूपं नास्ति, दानीं तत्कायस्पर्शेन मशकादिव्यापत्तेस्त्वयापि स्वीकारात्, कि पुनः सयोगिकेवलिनि वाच्यम्; तथा चोपजीवनानुपजीवनविकल्पव्याघातात् तादृशलब्धिविशेषकल्पनमप्रामाणिकमेवेति भावः ॥ ८३ ॥ अथ चारित्रमोहनीयकर्मक्षयजनिता जीवरक्षा हेतुर्लब्धियोंगगतैव कल्प्यत इति शैलेश्यवस्थाथां नोक्तदोष इत्याशङ्कायामाह -- जोगगया साली जोगिणो खाइगावि जइ एत्थ । ता तक्कम्मस्सुदप्रो तस्सेव हवे पराहुत्तो ॥ ८४ ॥ त व्याख्या--' जोगगय ' त्ति । सा जो रक्षा हेतुर्लब्धिर्योगगतेति कृत्वा क्षाfore यदि अयोगिनोऽयोगिकेवलिनो नास्ति, तदा तस्यैवायोगिकेवलिन एव तत्कर्मणश्चारित्रमोहनोयकर्मण उदयः परावृत्तो भवेत्, चारित्रमोहक्षयकार्याभावस्य चारित्रमोहोदयव्याप्यत्वादिति भावः ॥ किंच - यदि लब्ध्युपजीविजल

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278