Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२३८ पनमुच्यते, तदा तव मतेऽपि सूक्ष्मसम्परायोपशान्तमोहयोर्द्रव्य हिंसाऽभ्युपगमेन भापनावश्यंभावाद् भयमोहनीयकर्मबन्धसम्भवे षड्विधवन्धकत्वमेकविधबन्धकत्वं च भज्येत । न च जानतो भयप्रयोजकव्यापाररूपमेव भापनं भयमोहनीयाश्रव इति नायं दोष.इति वाच्यम्, जानतोऽपि भगवतो योगात् त्रिपृष्टवासुदेवभव विदारितसिंहजीवस्य पलायननिमित्तकभयश्रवणात् । यत्तु तस्य भयहेतवो न श्रीमहावीरयोगाः, किंतु तदीययोगा एव, यथाऽयोगिकेवलिशरीरान्मशकादीनां योगा एव कारणमिति कल्पनं तत्तु स्फुटातिप्रसङ्गग्रस्तम् । शक्यं ह्येवं वक्तुं, साधुयोगादपि न केषामपि भयमुत्पद्यते, किन्तु स्वयोगादेवेति । अथ भगवत्यभयदत्वं प्रसिद्धम्, तदुक्तं शक्रस्तवे-'अभयदयाणं' ति । एतद्वत्त्येकदेशो यथा-"प्राणान्तिकोपसर्गकारिष्वपि न भयं दयन्ते, यद्वाऽभया सर्वप्राणिभयत्यागवती दया कृपा येषां तेऽभयदयास्तेभ्य इति । तन्निर्वाहाथै केवलियोगादन्येषां न भयोत्पत्तिरिति कल्प्यते, साधुषु च तथाकल्पने न प्रयोजनमस्तीति चेद्, न । अस्मिनप्यर्थे सम्यग्व्युत्पन्नोऽसि, किं न जानासि ? संयमस्यैवाभयत्वम्, येन संयमिनां संयमप्रामाण्यादेवान्यभयाजनकयोगत्वं न कल्पयसि । न जानामीति चेत्, तर्हि "तं नो करिस्सामि समुट्ठाए मंता मइमं अभयं विदित्ता"-इत्याचारागसूत्र एवाभयपदार्थ पर्यालोचय, येनाज्ञाननिवृत्तिः स्याद्, “अविद्यमानं भयमस्मिन् सत्त्वानामित्यभयः संयमः' इति युक्तं वृत्ताविति ॥ ८१ ॥ ___परमतस्यैवोपपादकान्तरं निराकरोतिजंपि मयं पारंजो सदिसेसान चेव केवलिणो। तं पश्मी दिसाए णिराकयं होणायव्वं ॥ ॥
व्याख्या--'जं पि मयं' ति । यदपि मतं लब्धिविशेषादेव केवलिनो ना. रम्भा, प्रसिद्धं खल्वेतद्-यदुत घातिकर्मक्षयोपशमावाप्तजलचारणादिनानालब्धिमतां साधूनां नदीसमुद्रादिजलज्वलनशिखोपवनवनस्पतिपत्रपुष्पफलादिकमवलम्ब्य यदृच्छया गमनागमनादिपरायणानामपि जलजीवादिविराधना न भवतीति । तदुक्तं 'खीरासवमहुआसव'-इत्यादि चतुःशरणगाथावृत्तौ-" चारणेत्यादि यावत् केचित् पुष्पफलपत्रहिमवदादिगिर्यग्निशिखानीहारावश्यायमेघवा रिधारा-मर्कटतन्तुज्योतीरश्मिलताद्यालम्बनेन गतिपरिणामकुशलास्तथा वापोनद्यादिजले तज्जीवानविराधयन्तो भूमाविव पादोत्क्षेपनिःक्षेपकुशला जलचारणा

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278