Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२४१ कृतभङ्गरूपनिर्धारणापेक्षया वृत्तौ व्याख्याता । निक्षेपादिप्रपश्चोऽपि हि सर्वत्र स्थाद्वादघटनार्थमेव, यतः प्रस्तुतार्थव्याकरणादप्रस्तुतार्थापाकरणाच्च निक्षेपः फलवानुच्यते, ततश्च स्याद्वादसिद्धिरिति । अत एव सर्वत्रौत्सर्गिकी स्याद्वाददेशनैवोक्तेति सम्मत्यादिग्रन्थानुसारेण सूक्ष्ममीक्षणीयम् ॥ ४५ ॥ __ अथ य एवमवश्यंभाविन्याऽपि जीवविराधनया सद्भूतदोषमुत्प्रेक्ष्य भगवतोऽ सदोषाध्यारोपणं कुर्वन्ति तेषामपायमाविष्कुर्वन्नाह-- मिच्छादोसवयणो संसारामविमहाकमिनंमि । जिणवरणिंदारसिआजमिहिंति अणोरपारम्मि॥७॥ ___ व्याख्या--' मिच्छादोसवयणओ 'त्ति । मिथ्यादोषवचनाद्-असद्भूतदोपाभिधानाद् जिनवरनिन्दारसिका अभव्या दूरभव्या वा जनाः संसाराटवीमहागहनेऽनर्वापारे भ्रमिष्यन्ति, तीव्राभिनिवेशेन तीर्थकराशातनाया दुरन्तानन्तसंसारहेतुत्वात् । उक्तं च-'तित्थयरपवयणमुअं' इत्यादि ८६॥ __ अथ केवलि-छद्मस्थलिङ्गविचारणया न केवलिनोऽवश्यंभाविनी विराधना सम्भवतीति व्यामोहोऽपि न कर्त्तव्यः, सम्यग्विचारपर्यवसानत्वात्तस्य, इत्यभिपायवानाह-- जोवि य जाय मोहो छनमत्थ जिणाण लिंगवयणान। नवनत्तस्स ण चिट्ठ सोवि य परमत्थ दिट्ठीए ॥७॥ ___ 'जो वियत्ति' । योऽपि च छद्मस्थजिनयोलिङ्गवचनात् स्थानाङ्गस्थान्मोहो जायते दुर्व्याख्यातुर्व्याख्यां शृण्वतामिति शेषः , सोऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति: अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्तनीयत्वादिति भावः । तत्र छद्मस्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितम्" सत्तहिं ठाणेहिं छउमत्थं जाणेजा । तं०-पाणे अइवाइत्ता भवति, मुसं वदित्ता भवति, अदिन्नमादित्ता भवति, सद्दफरिसरसरूवगंधे आसाइत्ता भवति, पूआ सकारमणुहिता भवइ, 'इमं सावज ति पप्णवेत्ता पडिसेवेत्ता भवति,णो जहावादी तहा कारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणिजा । तं०-णो पाणे अइवाइत्ता भवइ, जाव जहावाई तहाकारी यावि भवइ ” इति । एतवृत्तिर्यथा-"भयं

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278