Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 258
________________ २४५ यिता भवति' इति वचनात् तेन लिङ्गापेक्षया द्वयोरपि साम्यमेव । एवं च सति यदि क्षीणमोहस्य छद्मस्थवीतरागस्य कथंचित्केवलित्वं नाभ्युपगम्यते, तर्हि क्षीणमोहे छद्मस्थवीतरागे सप्तापि लिङ्गानि व्यभिचरन्ति, तत्र हेतुषु विद्यमानेषु साध्यस्य केवलित्वस्यासत्वात् । नन्वास्तामन्यत् परं केवलिनः पञ्चानुत्तराणि भवन्ति । यदागमः - "केवलिस्स णं पंच अणुत्तरा पं० । ० - अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे विरिए "त्ति । एतानि पञ्चापि केवलिनिवर्त्तमानानि कथं केवलित्वगमकलिङ्गतया नोक्तानि ? इति चेद्, उच्यते - एतेषां पञ्चानामपि छद्मस्थज्ञानागोचरत्वेनानुमितिजनकत्वाभावात् न लिङ्गानि भवितुमर्हन्ति, प्रत्युत केवलज्ञानादिपरिज्ञानार्थमेवोक्तलिङ्गानां प्रज्ञापनेति । एतेन सप्तापि प्राणातिपातादीनि छद्मस्थानां रागद्वेषजनितानि तेषां तयोः सच्त्वात् । केवलिन - स्तु रागद्वेषजनितानां तेषां निषेधो न पुनः सर्वथा निषेधः, चक्षुःपक्ष्मनिपातमात्रजन्याया असङ्ख्येयवायुकायजीव विराधनायाः केवलिनोऽप्यनिवृत्तेरिति निरस्तम्, अशक्यपरिहारस्यापि केवलिनि निरासात् । किंच-परकीयरागद्वेषयोस्तदभावस्य च निरतिशयच्छद्मस्थज्ञानागोचरत्वेन तथाभूतच्छद्मस्थमात्रानुमितिजनकलिङ्गानां विशेषणत्वासम्भवात्, सम्भवे च यो रागद्वेषवान् स छद्मस्थः, यस्तु रागद्वेषरहितः स केवलोति विशेषणज्ञानमात्रेण छद्मस्थकेवलिनोर्विवेकेन सम्यग्निर्णये जाते प्राणातिपातादीनां तन्निषेधरूपाणां च विशेष्यपदानां भणनमुन्मत्तप्रलापकल्पं सम्पद्येत, प्रयोजनाभावात्, धर्मोपदेशादिक्रियामात्रस्यापि तथात्वेन सप्तसङ्ख्याभणनस्यायुक्तत्वाच्च । किंच - अप्रसिद्धविशेषणदानेन हेतूनां सन्दिग्धस्वरूपासिद्धतापि, तथा रागद्वेषवच्चछद्यस्थत्वयोस्तद्राहित्य केवलित्वयोश्चैक्यमेवेति हेतोः साध्यघटितत्वेन हेतुस्वरूपहानिः; तस्मादविशिष्टानामेव छद्मस्थगम्यमाणातिपातादिनिषेधरूपाणां केवलित्वगमकलिङ्गत्वं प्रतिपत्तव्यम् । यत्तु छद्मस्थत्वज्ञापकलिङ्गेषु ' कदाचिद् इति विशेषणं टीकाकारेण दत्तं तत्सप्तानामपि लिङ्गानां स्वरूपासिद्धिचारणार्थम्, नहि छद्मस्थसाधावनवरतं प्राणातिपातादिशीलत्वं सम्भवतीति । यच्च केवलित्वज्ञापकलिङ्गेषु ' कदाचिदपि ' इति विशिष्टविशेषणमुपात्तं तच्छद्मस्थसाधौ व्याभचारवारणाय भवति ह्येतद्विशेषणं विना छद्मस्थसाधौ प्राणातिपाताद्यभावावस्थायां हेतुषु विद्यमानेषु केवलि - त्वाभावेन व्यभिचार इति । , अत्र वदन्ति - 'सत्तर्हि ठाणेहिं छउमत्थं जाणिज्जा' इत्यत्राप्रमत्तस्य पक्षी

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278