Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 243
________________ २३० दोषरूपा, उभयरूपा, अनुभयरूपा वा ? आधे तद्गुणवैकल्येनायोगिकेवलिनो हीनत्वं दुर्निवारमेव । द्वितीये तु स्वाभ्युपगमस्य हानिर्लोकशास्त्रविरोधश्च । तृतीयश्व पक्षो विहितक्रियापरिणत योगरूपां जीवरक्षामधिकृत्य विहितक्रियात्वेन गुणत्वं योगत्वेन च दोषत्वमभिप्रेत्य सम्भवदुक्तिकोऽपि स्वाभाविकजीवघाताभावरूपां जीवरक्षामधिकृत्यासम्भवदुक्तिक एव; नहि स गुणो दोषश्चेत्युभयरूपतामास्कन्दतीति । चतुर्थे तु तदभावेऽप्ययोगिकेवलिन इव सयोगिकेवालनोऽपि न बाधक इति, किं तत्रावश्यंभाविजीवविराधनानिरासव्यसनितया ? अथ जीवघाताभावमात्ररूपा जीवरक्षा न गुणः, किन्तु योगजन्यजीवघाताभावरूपा; सा च मशकादिकर्तृकमशकादिजीवघातकालेऽयोगिकेवलिनोऽपि विशिष्टाभावसत्वान्नानुपपन्नेति न तस्य तद्गुणवैकल्यम् । न वा सयोगिकेवलिनोऽपि योगात् कदाचिदपि जीवघातापत्तिः, तादृशजीवरक्षारूपातिशयस्य चारित्रमोहनीयक्षयसमुत्थस्य ज्ञानावरणीयक्षयसमुत्थकेवलज्ञानस्येव सर्वकेवलिसाधारणत्वात् संयतानां यज्जीववविषयकाभोगस्तज्जीवरक्षाया नियतत्वाच्च । अत एव सामान्यसाधूनामप्यनाभोगजन्यायामेव विराधनायां परिणामशुद्धया फलतोऽवधकत्वमुपदर्शितम् ॥ तथा चोक्तं हितोपदेशमालायां ሰሩ णणु कह उवत्ताण विछउमत्थ मुणीण सुहुमजिअरक्खा । सच्चं तहवि ण वहगा उवओगवरा जओ भणिअं ॥ १ ॥ " एतद्व्याख्या यथा - नन्विति पूर्वपक्षोपन्यासे । छद्मस्थानां विशिष्टातिशयज्ञानरहितानां मुनीनां साधूनामुपयुक्तानामपि सम्यगीर्यासमितानामपि सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ? आचार्य आह- सत्यमवितथमेतत्, तथापि विशिष्टज्ञानशून्या अपि यद्युपयोगपराः पूर्वोक्तयुक्या चंक्रमणप्रवृत्तास्तदा सम्भवत्यपि प्राणिवधे न वधका - वधकार्यपापभाजः ।। " न चैतत्काल्पनिकम, यत ' उच्चालिअंमि पाए ' इत्यादि यत एव भगवतोऽहिंसातिशयः, अत एव ' अणासवो केवलीणं ठाणं ' इति प्रश्नव्याकरणसूत्रे केवलिनां स्थानं केवलिनामहिंसायां व्यवस्थितत्वादित्युक्तम् । तथा चतुःशरणप्रकीर्णकेऽपि ' सङ्घजिआ महिंसं अरिहंता ' - इत्यत्र सर्वे सूक्ष्मबादरत्रसस्थावरलक्षणा ये जीवास्तेषां न हिंसाऽहिंसा तामर्हन्त इति वितृतमिति चेत्, नन्वेवं योगजन्यजीवघाताभावरू.. पाया जीवरक्षाया भगवतोऽतिशयत्वं स्वीकुर्वाणस्य तव मते सयोगिकेवलिनो

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278