Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 241
________________ २२८ बन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र अप्रासङ्गिके प्रथमाङ्गत्तिग्रन्थे नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण श्ह कत्तारं नियमा मसगाजीवमहिकिन्छ। जण इमं पासंगियमइप्पसंगो फुडो तस्स ॥ १३ ॥ व्याख्या-'जो पुण' त्ति । यः पुनरिह शैलेश्यवस्थायामवश्यंभाविन्यां जीवविराधनायां कर्तारं नियमान्मशकादिजीवमधिकृत्येदमाचाराङ्गकृत्युक्तं प्रासंगिकं भणति-तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपश्वप्रदर्शनमात्रप्रसङ्गमाप्तं वदति, नतु स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम्, तस्य स्फुट एवातिप्रसङ्गः । एवं ह्यप्रमत्तसंयतस्यापि प्रमादनियतजीवविराधनाकर्तृत्वाभावेन जीवविराधनानिमित्तककर्मवन्धो भ्रियमाणजीवगत एव पयवस्येद्, नत्वप्रमत्तसंयतनिष्ठ इति कर्मवन्धानुमेयविराधनाया अप्रमत्तसंयतादिषु विचित्राया अभिधानमखिलं व्यधिकरणमेव स्यादिति । .. किञ्च-अत्र 'कर्मवन्धं प्रति विचित्रता' इत्यत्र 'अत्र' इति निमित्तसप्तम्याश्रयणात् संयतसम्बद्धावश्यंभाविजीवविराधनानिमित्तमधिकृत्यैव कर्मबन्धविचित्रता वक्तुमुपक्रान्ता, सा च कर्मबन्धाभावकर्मबन्धावान्तरभेदान्यतररूपेति नायोगिनि तद्विचित्रताऽनुपपत्तिः । अत एव-" सेलेसिं पडिवन्नस्स जे सत्ता फरिस पप्प उद्दायति मसगादी, तत्थ कम्मवंधो पत्थि । सजोगिस्स कम्मबंधो दो समया । जो अपमत्तो उद्दवेइ तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठमुहुत्ता । जो पुण पमत्तो न य आउट्टिआए तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठसंव. छछराइं । जो उण आउट्टिआए पाणे उवद्दवेइ तवो वा छेओ वा वेयावडं वा करेइ ॥” इत्याचारागचूर्णावप्यवश्यंभाविजीवविराधनानिमित्तक एव कर्मबन्धाभावसः (वः) कर्मबन्धविशेषश्चायोगिकेवल्यादीनां संयतानां पश्चानुपूर्व्या व्यक्तः प्रतीयते । कर्मबन्धाभावादौ निमित्तत्वं च तत्र स्वसमानाधिकरणोपादानानुरोधेनाऽभिधीयमानं निमित्तमनैकान्तिकमिति सम्प्रदायादविरुद्धम् । तथा च 'सजोगिस्स कम्मबंधो दो समया' इत्यत्र 'तत्र' इत्यस्यावश्यमनुषङ्गात् । तत्र कायस्पर्श प्राप्य सत्त्वोपद्रवे सयोगिकेवलिनो द्वौ समयौ कर्मबन्ध इति स्फुदार्थप्रतीतावुपशान्तक्षीणमोहयोरपि तत्समानजातीयत्वेन तत्र द्वावेव समयौ कर्म

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278