Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२३३
C
व्याख्या- 'हु सक' त्ति । 'ण' हु' नैव शक्यम्, दीर्घत्वं प्राकृतत्वात्, कर्चे 'जे' इति पादपूरणार्थी निपातः । इह जीवघने लोके बादरवायुकायिकानां जीवानां स्वत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं - विविक्त देश संक्रमणम्, केवलिनापि च पुनर्विहारे जलादिजीवानां तद्-उद्धरणम्, इति वाक्यार्थपरिसमाप्तौ ।
अयं भावः -- केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं तत्रावश्यंभाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः ? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतका रणस्याशक्ततोद्भावनमधीततर्कशास्त्रा विदधते । इत्थं सति दण्डसच्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति ॥ ७५ ॥
अत्र परः शङ्कते -
'नए जिजोगान तहा जलाईजीवाण घायपरिणामो । चित्तपसेणं जह गमणं पुप्फचूलाए ॥ ७६ ॥
व्याख्याः
नणु 'त्ति । नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साध्या अवाप्त केवलज्ञानाचा अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषाद चित्तप्रदेशे खे गमनं संपन्नम्, तथा विहारेऽपि जलादिजोवानां जिनयोगादघातपरिणामोsस्तु, नोवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्रजीवमात्रयोर्घात्यधातकसम्बन्धाभावे केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेशोऽपि सम्पद्यत इति ॥ ७६ ॥
6
-
अत्र समाधानमाह
'जण सवं एयं जणियं णु तए परोप्परविरुद्धं । दिहं तियदिट्ठेता जमेगरूवा ण संपन्ना ॥ 99 ॥
१ ननु जिनयोगात् तथा जलादिजीवानां घातपरिणामः । अचित्तप्रदेशेन यथा गमनं पुष्पचूलायाः ॥ ७६ ॥
२ भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् । दान्तिकदृष्टान्तौ यदेकरूपौ न संपन्नौ ॥ ७७ ॥

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278