Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 239
________________ ૨૧૬ गेsपि पञ्चविधोपादानकारणाभावान्नास्ति बन्धः' इत्यत्र कर्त्तुः सम्यविचारे मशकादीनां प्राणत्यागस्य कर्चा किमयोगिकेवली, उतान्यः कश्चिद् । नाद्यः, अयोगित्वकर्तृत्वयोर्विरोधेनायोगिकेबलिनः कर्तृत्वाभावाद नहि कायादिव्यापारमन्तरेण कर्त्ता भवितुमर्हति ' क्रियाहेतुः स्वतन्त्रः कर्ता ' इति वचनात् । यदि चायोगिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तन्निमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः स्यात् । पुरुषप्रयत्नमन्तरेणापि प्राणत्यागलक्षणस्यकार्यस्य जायमानत्वेन पञ्चसमवायवादित्वहानेः । निमित्तत्वमात्रेण च कर्तृत्वव्यपदेशोऽपि न भवति, साध्वादिनिमित्तकोपसर्गस्य दानादेश्व साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तेः । द्वितीयविकल्पेऽन्यः कश्चित् कर्ता - इत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्कभावेन निजप्राणत्यागोऽपि नाभविष्यद् - इति व्याप्तिबलेन मशका दियोगजन्यत्वात् । तथा चायोगिकेवलिनि मशकादिकर्तृका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृकार्यभावसम्बन्धेन जीवविरधनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति ॥ ७० ॥ तत्र आह कारगसंबंधेणं तस्स पिमित्त स्सिमा उ मज्जाया । कत्ता पुणो पत्तो पियमा पाणाश्वायस्य ॥ ७१ ॥ व्याख्या- -' कारगसंबंधेणं ' ति । कारकस्यापि करणादिरूपस्यायोगिकेवल्यादेः पचानुपूर्व्या प्रमत्त संयतान्तस्य सम्बन्धेन तस्य साक्षात्कायस्पर्शप्रत्ययारम्भस्य निमित्तस्येयमाचा राजवृत्तिकृदुत्ता मर्यादा - अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणाक्रियते, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नाक्तानुपपत्तिरित्यर्थः । कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यवहारेण प्रमादवत एव प्राणातिपातकत्वव्यवस्थितेः, ततो यदि कर्तृकार्यभावसम्बन्धेनैवात्र जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीत्या केवलिन इवाममयतस्यापि निर्देशोऽप्रामाणिक इति सर्वमेव वृत्तिदुक्तं विशीर्येत । यदि

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278