Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 187
________________ वा ताभिः 'इदं सावद्यम्' इति प्रज्ञाप्य प्रतिषेवित्वम्, इदमित्यनेन प्रत्यक्षव्यक्तिग्रहणात् तस्यावानवद्यत्वादिति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यम्' इत्यादिसामान्यप्रतिवेधवाक्ये श्रुतव्यवहारश्रुद्धानेषणीयातिरिक्तानेषणीयादेनिषेध्यत्वं वक्तव्यम्; तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यपतिषिद्धमेवेत्या भोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां वापि न स्यादिति खदपेक्षया यतीनाम शुभयोगत्वमुच्छिद्येतैवेति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः, तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभत्वम्, अशुभयोगजन्यजीवधातो जोवारम्भकत्वव्यवहारविषयः, अशुभयोगारम्भकपदयोः पर्यायखप्रसङ्गाद्, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच; नहि ते आभोगेन जोवं नन्तीति। अस्ति च तेष्वप्यारम्भकव्यवहारः। तदुक्तं भगवतीवृत्तौ-" तत्थ णं जे ते असंजया ते अविरई पडुच्च आयारंभा वि जावणो अणारंभा" इत्यस्य व्याख्याने इहाय भावः-यद्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, न हि ते ततो निवृत्ताः: अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कश्चिदात्माघारम्भकत्वेऽप्यनार म्भकलम् । यहाह- ‘जा जयमाणस्स' इत्यादि: किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपूर्वकव्यापारत्वं शुभयोगत्वं तदनुपयोगपूर्वकव्यापारत्वं चाशुभयोगसम्, तदुक्तं भगवतीवृत्ती-“शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयो. गस्तु तदेवानुपयुक्ततयेति । तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्व भावादेव, अशुभयोगश्च प्रमादापाधिकः । तदुक्तं तत्रैव-" प्रमत्तसंयतस्य हि शुभोऽशुभश्व योगः स्यात् , संयतखात्प्रमादपरखाच्चेति” । तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षगादिकरणादशुभयोगदशायामारम्भिकोक्रियाहेतुव्यापारवत्वेन सामान्यत आरम्भकत्वादात्मारम्भकादित्वम् , शुभयोगदशायां तु सम्यक्रियोपयोगस्यारम्भिको क्रियाप्रतिबन्धकत्वात् , तदुपहितव्यापाराभावेनानारम्भकत्वम्, प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्प्रतिपादनात् । तदुक्तं प्रज्ञापनायां क्रियापदे- आरंभियाणं भंते ! किरिया कस्स कन्जइ, गो०, अण्णयरस्सावि पमत्तसंजयस्स ” इति । अत्रा १तत्र येते असंयतास्ते अविरतिं प्रतीत्य आत्मारम्भाअपि यावद् नो अनारम्भाः। २ आरम्भिकानां भदन्त ! क्रिया कस्य क्रियते ? गौतम ! अन्यतरस्यापि प्रमत्तसंयतस्य ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278