Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 213
________________ २०० इति तत इदमुच्यते ॥ १ अप्पेण बहु इच्छइ पिसुद्धआलंबणो समणो।" इति। निश्चयतस्तु नैकान्ततो बाह्य वस्तु विधीयते निषिध्यते वा, केवलं शुभभावो वि* धीयतेऽभुभभावस्तु निषिध्यते, अत एव भावानुरोधेन बाह्ये वस्तुनि विधिनिषे*धकामचारः । तदुक्तं सदासगणिक्षमाश्रमणपूज्यपादैः-०२णय किंचि अणुगणायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होअव्वं ॥१॥” ति । तथा च ' यदेव निश्चयाङ्गव्यवहारेण नद्युत्तारादेरनुज्ञातत्वं तदेव " द्रव्यहिंसाया अपि' इत्यवशिष्टकल्पना जालमनुत्थानोपहतम् । इदं तु ध्येयम् अनुज्ञाविषयतावच्छेदकं हिंसात्वं नधुत्तारत्वादिकं वा, किन्तु सामान्यविशेषविधिविधेयतावच्छेदकविधिशुद्धव्यापारत्वयतनाविशिष्टनद्युत्तारखादिकम्, फल तस्तु विधिशुद्धहिंसाया अप्यनुज्ञाविषयत्वं व्यवहाराबाधितमेव, अत एव विधिना क्रियमाणाया जिनपूजादिविषयहिंसाया अनुबन्धभावतो मोक्षप्राप्तिपर्यवसानसमुपदेशपदपञ्चवस्तुकादावुक्तम् । यत्तु 'अरिहंता भगवंतो' इत्यादि सम्मतिप्रदर्शनेन भगवतो विराधनाविषयकवाझयोगासम्भव उपपादितस्त इत्यन्तमसमासम्, सम्मतिवचनस्य कायव्यापारेणेव प्रवर्तकलनिवर्तकखाभावाभिधानतात्पर्याद्वाक्मयोगस्याप्यमवर्तकनिवर्तकत्वविधिनिषेधव्यापारवैयर्थ्याद् । यदपि "सविशेषणे० " इत्यादिन्यायेन यतनाऽयतनाविषयत्वमेव सर्वत्र जिनोपदेशस्यो• पदर्शितं तदपि विशेष्यभागस्याकिश्चित्करत्वपदर्शनार्थं महावाक्यार्थपर्यवसानार्थमैदं पर्यार्थपर्यवसानार्थ वा ? नाद्यः, नद्युत्तारजन्यस्य भिक्षाचर्याविहारादिफलस्य यतनामात्रादसिद्धेविशेष्यभागस्याकिञ्चित्करत्वासम्भवाद् । न द्वितीयः, महावाक्यायस्य सर्वैरेव पदार्थैः पर्यवसानाद् । नापि तृतीयः, 'आज्ञा धर्म सार' इति सार्वत्रिकैदंपर्यार्थस्य प्रकृतवाक्यार्थे योजनायामपि विशेष्यस्य त्यागायोगात् । । किञ्चैवं • जयं चरे' इत्यादौ यतनांश एवोपदेशो न तु चरणाग्रंश इत्येकत्र "" वाक्ये कथं पदपदार्थयोजना ? यदपि ज्ञानाद्यर्थमपवादप्रतिषेवणेऽप्यनादिसिद्ध कल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधक एव जिनोपदेशः, प्रवृत्तिस्त्वौचित्यज्ञानेन स्वत एवेत्युक्तं तदप्यगाधभ्रमसमुद्रमज्जनविजृम्भितम्, जिनोपदेशात् कल्प्यत्वादिबोधे स्वत एव प्रवृत्तिवचनस्याविचारितरमणीयत्वात्, कल्प्यताबोधकस्योपदेश "स्यैव प्रवृत्तिजनकेच्छाजनकज्ञानविषयेष्टसाधनतादिबोधकत्वेन प्रवर्तकत्वाद्, एतदेव हि १ आत्मना बहु इच्छति विशुद्धालम्बनः श्रमण इति ॥ २ न किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रः । एषा तेषामाज्ञा कार्य सत्येन भवितव्यम् ॥ ३बतं चरेत् ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278