Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 228
________________ दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए नि (वि) द्दावणयाए परियावणयाए वट्टइ, से तेणटेणं मंडियपुत्ता एवं वुच्चइ, जावं च णं से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरियाण हवइ' त्ति। एतद्वृत्तिर्यथा-क्रियाधिकारादिदमाह-'जीवेणं' इत्यादि। इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् ; सदा-नित्यं 'समियं 'ति-सप्रमाणं 'एयइ' त्ति एजते कम्पते ' एन कम्पने' इति वचनात् ; 'वेयइ 'त्ति व्येजते विविधं कम्पते, 'चलइ ' त्ति स्थानान्तरं गच्छति, 'फंदइ' त्ति स्पन्दते किञ्चिच्चलति, 'स्पदि किश्चिञ्चलने' इति वचनात्; अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टइ ' त्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति; 'खुब्भइ ' त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, बिभेति वा; 'उदीरइ 'त्ति प्रावल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति । शेषक्रियासङ्गहार्थमाह-' तं तं भावं परिणमति' त्ति उक्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः । एषां वैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यम् ? नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । तस्स जीवस्स 'अंते त्ति मरणान्ते 'अंतकिरिय' त्ति सकलकर्मक्षयरूपा। ' आरम्भइ 'त्ति आरभते पृथिव्यादीनुपद्रवयति, 'सारंभइ' त्ति संरभते-तेषु विनाशसंकल्पं करोति, 'समारंभइ 'त्ति समारभते-तानेव परितापयति, आह च-"संकप्पो सरंभो परितावकरी हवे समारंभो । आरंभो उवद्दओ सबणयाणं विसुद्धाणं ॥१॥” इदं च क्रिया क्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथश्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि । आरम्भेऽधिकरणभूते वर्त्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरभमाणः' संरभमाणः समारभमाणो जीव:-इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, 'आरम्भे वर्तमानः' इत्यादिना तु द्वितीयः, “दुक्खावणयाए' इत्यादौ वा शब्दस्य प्राकृतप्रभवत्वाद् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम, अथवेष्टवियोगादिदुःखहेतुपापणायां वर्त्तते इति योगः; तथा शोकापनायां दैन्यप्रापणायाम, 'जूरावणयाए ' त्ति शोकातिरेकाच्छरोरजीर्णताप्रापणायाम्, 'तिप्पावणयाए ' त्ति 'तेपापनायां' तिपृ ष्टेप क्षरणार्थाविति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणपापणायाम, । 'पिट्टावणयाए' त्ति पिट्टनमापणायाम, ततश्च परितापनायां शरीरसन्तापे वर्त्तते, क्वचि

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278