Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 229
________________ त्पठ्यते 'दुक्खावणयाए' इत्यादि, तच्च व्यक्तमेवः । यच्च तत्र “किलामणयाए उद्दवणया' इत्यधिकमभिधीयते, तत्र 'किलामणाए ' त्ति ग्लानिनयने, 'उहवणयाए' त्ति उत्रासन इति । अत्र ोजनादिक्रियाणामारम्भादिद्वारैवान्तक्रियाविरोधित्वं प्रतोयते । आरम्भादीनां चैजनादि क्रियानियतत्वम्, नियमश्चायं यथासम्भवं द्रष्टव्यः, तेन नाप्रमत्तानामारम्भवत्संरम्भसमारम्भयोरप्यापत्तिरिति श्रद्धाः। युक्तं चैतत्-" 'जाव णं एस जीवे सया समिअं एअइ वेयइ जाव तं तं भावं परिणमइ ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहवंधए वा, नोणं अबंधए ।” इत्यत्रैजनादिक्रियाणामष्टविधायन्यतरबन्धव्याप्यत्ववत्मकृतेरप्यारम्भाद्यन्यतरव्याप्यत्वस्यैव व्युत्पत्तिमर्यादया लाभात् । परः पुनरेनमेवार्थं " सुमुनीनां शोभना मुनयः सुमुनयः सुसाधवस्तेषामप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानं यावदारम्भे वर्तमानानामप्यारम्भिकी क्रिया न भवति" इत्यादि स्वयमेव ग्रन्थान्तरे लिखितमस्मरनिवान्यथैवात्र व्याख्याप्रकारमारचयति । तथाहि-अन्तक्रियाप्रतिबन्धकास्तावद्योगा एव, यावद् · योगास्तावदन्तक्रिया न भवति, योगनिरोधे च भवतीति तेषां तत्प्रतिबन्धकत्वाद्, यदभावो यत्र कारणं तदेव तत्र प्रतिबन्धकमिति जगत्स्थितेः । न चैवं क्वाप्यागमे जीवधातनिरोधे तज्जन्यकर्मबन्धनिरोधे वाऽन्तक्रिया भणिता । तस्मात्साक्षाजीवघातलक्षण आरम्भो नान्तक्रियायाः प्रतिबन्धकः, तदभावेऽन्तक्रियाया अभणनात् , प्रत्युतान्निकापुत्राचार्यगजसुकुमारादिदृष्टान्तेन सत्यामपि जीवविराधनायां केवलज्ञानान्तक्रिययोर्जायमानत्वात् कुतस्तत्पतिबधकत्वशङ्कापाति । अत्र सूत्रे एजनादिक्रियाजन्यआरम्भो न भणितः, किन्तु क्रियारम्भयोरेकाधिकरणे नियमो भणितः, स वैवं-यावत्कालं यतनादिक्रियावान् तावत्कालं स आरम्भादिमानेव; एवं च सति कम्पनादिक्रिया व्याप्या, आरम्भश्च व्यापकः, तेन कम्पनादिक्रिया नारम्भहेतुः, किन्त्वारम्भः कम्पनादिक्रियाहेतुः। यथा ' यावत्कालं यो धूमवाँ स्ताक्त्कालं स आर्दैन्धनमभववहिमानेव' इत्यत्र धूमस्तथाभूतवह्वेर्जनको न भवति, भवति च तथाभूतो वहिधूमजनक इति । अतः क्रियापतिबन्धकारम्भव्याप्यत्वेन कम्पनादिक्रियाणामन्तक्रियाप्रतिबन्धकत्वं व्याख्येयम् , आरम्भशब्देन च १ यावदेष जीवः सदा समितमेजते, व्येजते यावत् तं तं भावं परिणमते तावदष्टविधबन्धको वा सप्तविध बन्धको वा षड्विधबन्धको वा एकविधबन्ध. को वा; नो अबन्धकः ॥

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278