Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 233
________________ २२० वतः साऽल्पदोषाय ॥ १ ॥ तद्रज्जीवहितार्थं जोवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा यत्नवतः साल्पदोषाय ॥ २ ॥” इति । तथा च स्थूलक्रियैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवंभूताररम्भस्य भगवति सत्वे न बाधकमित्यारम्भशक्तिरेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेन कार्य कुर्वत एव कारणत्वाभ्युपगमाद् । न च शक्तिविशेषं विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तत्वापत्तेः । न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद्-इत्यारम्भशक्तिसत्वे केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति ॥ ६७ ॥ एतदेवाह - 'सो केवलियो विहवे चलोवगरणत्तणं जमेयस्स । सहगारिवसा यियं पायं थलाइ किरियाए ॥ ६८ ॥ व्याख्या- -' सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः केवलिनोऽपि भवेद्, यद् यस्मादेतस्य केवलिन लोपकरणत्वं सहकारिवशाद् - गमनक्रियापरिणामादिसहकारिवशात्प्रायः स्थूलया क्रियया नियतं वर्त्तते । अयं भावः--चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम् - " केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा ऊरुं वा ओगाहित्ता णं चिट्ठह्न पभू णं केवली सेअकालंसि तेसु चैव आगासपएसे हत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए ? गो० णो इणट्टे समट्ठे । १ स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य । सहकारिवशान्नियतं प्रायः स्थूलया क्रियया ॥ ६८ ॥ १ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा ऊरुं वा अवगाह्य तिष्ठति प्रभुः केवली पष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम ! नायमर्थः समर्थः । स केनार्थेन भदन्त ! एवमुच्यते- यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावत्तिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा यावत्स्थातुम् । गौतम ! केवलिनो वीर्यसयोगसद्रव्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्ति - कृति, न प्रभुः केवली एष्यत्कालेऽपि तेष्वेव स्थातुम्, स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् ।

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278