Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 231
________________ २१८ व्याख्या-आरम्भादियुतत्त्वं ' आरम्भादिनियतत्वं क्रियाणाम्' इति पाक्तनमिहानुषज्यते; 'तच्छक्त्या' आरम्भादिशक्त्या, तुरेवकारार्थों भिन्नक्रमश्च, नत्तु तैः स्फुटै:-स्फुटैरेव तैरारम्भादिभिनेत्यर्थः । अयं भावः-स्थूलकालावच्छेदेन लावदेतत्सूत्रोक्तएजनादिक्रियाणां साक्षादारम्भनियमो वदेरयोगस्य (?) नासम्भवी, इत्यम्भूतनियमस्यापि सूत्रेऽभिधानाद्, अत एव यस्मिन् समये कायिकी क्रिया, तस्मिन् पारितापनिको प्राणातिपातिकी च प्रज्ञापनोक्तेशनियमेनैव वृत्तिकृतोपपादिता । तथाहि-समयग्रहणेन चेह सामान्यः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तस्वरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथम समय एवासम्भवादिति । अयं च नियम आरम्भजातीयस्य दोषत्वस्फुटीकरणार्थ व्यवहारेणोच्यते, न तु केवलिनोऽप्यारम्भो दोष इति नानुपपत्तिः, तथापि निश्चयतो योगानां केवलानामेव यत्पतिबन्धकत्वं परेणोद्भाव्यते, तत्र वयं वदामः-न स्फुटारम्भयुक्तानां नवा केवलानां योगानामन्तक्रियाप्रतिबन्धकत्वं निश्चिनुमः, किन्त्वारम्भशक्तियुक्तानामन्तक्रियाविरोधित्वं प्राणघातानुकूलपुद्गलप्रेरणाकारिस्थूलक्रियारूपारम्भजननशक्तिसाहितैर्योगैः स्थूलक्रियारूपारम्भजननद्वाराऽन्तक्रियाप्रतिघाताद्, अत एव चरमयोगे आरम्भजननशक्त्यनन्वयात् , तेन नान्तक्रियाप्रतिबन्ध इति तदनन्तरमेवान्तक्रियासम्भवस्तदिदमाह- तच्छक्तिविगमे' आरम्भादिजननशक्तिविलये पुनर्योगनिरोधोऽप्रतिवद्धोऽस्वलितसामग्रीकः, चरमयोगक्षणस्यैव योगनिरोधजनकत्वाद् । इदं च सूक्ष्मणुसूत्रनयमतमित्यविरुद्ध मिति मन्तव्यम् ॥६६॥ नन्वेवमनेन सूत्रेण केवलिन आरम्भजननशक्त्यन्वितयोगवत्वं भवद्भिरभ्युपगतम्, तच्चास्माकमपि सम्मतमेव, आरम्भस्वरूपयोग्यतायाः केवलियोगेष्वस्माभिर भ्युपगमात् । नचातः केवलिन्यारम्भसम्भवोऽपि, मोहनीयाभावेन तन्निरूपितफलोपहितयोग्यतायास्तत्रास्वीकारादिति पराशङ्कायामाहपोग्गलपण्डोनणाए जो आरंनो मी किरियाए। णिया मुली नणियोसस्सिअनाएण सोऽदुट्ठो।६। १ पुद्गलप्रणोदनायां य आरम्भोऽनया क्रियया। नियमान्मुनीनां अणितः सोऽदुष्टः शास्यिकज्ञातेन ॥ ६७ ॥

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278