Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 235
________________ दवओ होइ ण भावओ उ ।" ति वचनाद्-इत्याशङ्कामेवद्वचनं फलीभूतसाक्षासम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराह'सक्खं तु कायफासे जो आरंजो कया सो हुा । अहिगिच्च तं णिमित्तं मग्गिजइ कम्मबंधविई ॥१९॥ व्योख्या-' सक्खं तु 'त्ति । साक्षात्तु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत , तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिम॒ग्यते शास्त्रकारैरिति गम्यम् । यद्यप्यप्रमत्तानामवश्यभावी जीवघातो न प्राणातिपातत्वेन दोषः, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादानसद्भावासद्भावकृतं फलवैचित्र्यं विचार्यत इत्यर्थः ॥६९॥ कथमित्याह'तत्थ णिमित्ते सरिसे जेणावादाणकारणाविक्खो। बंधाबंधविसेसो नणियो आयार वित्तीए ॥ ७॥ व्याख्या-'तत्थ' त्ति । तत्र साक्षात्कायस्पर्शान्जायमानारम्भे निमित्ते सदृशे आकेवलिनमेकरूपे सति येन कारणेनोपादानकारणस्यापेक्षा नियतसद्भावा सद्भावाश्रयणरूपा यत्र स तथा बन्धावन्धविशेषः-कर्मबन्धतारतम्यतदभावप्रकारो भणित इति आचारवृत्तौ । तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं लिख्यते-" से' अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणिअट्टमाणे संपलिज्जमाणे एगया गुणसमिअस्स रीयतो कायसंफासमणुचिन्ना एगइआ पाणा उद्दाइंति, इह लोगवेदणवेज्जावडियं जं आउट्टिकयं १ साक्षात्तु कायस्पर्श य आरम्भो कदाचित्स भवेत् । अधिकृत्य तं निमितं मृग्यते कर्मबन्धस्थितिः । २ तत्र निमित्ते सदृशे येनोपादानकारणापेक्षः । बन्धाबन्धविशेषो भणित आचारवृत्त्याम् ॥ ७० ॥ १ स अभिक्रामन् प्रतिक्रामन् संकुचन् प्रसारयन् संपरिमृजन एकदा गुणसमितस्य रीयमानस्य कायसंस्पर्शमनुचीर्णा एके प्राणा अपक्रान्ति, इह लोकवेदनवेद्यापतितं यत्पुनराउट्टिकृतं कर्म तत्परिज्ञाय विवेकमेति ।।

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278