Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२२३ कम्यं तप्परिनाय विवेगमेति ति"॥अथैतवृत्तिः-'से' इत्यादि । स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् , प्रतिक्रामन्-निवर्तमानः, संकुचन् हस्तपादादिसङ्कोचनतः, प्रसारयन् हस्तादीनवयवान, विनिवर्तमानः समस्ताशुभव्यापारान् सम्यक् परिसमन्ताद् हस्तपादादीनवयवांस्तनिक्षेपस्थानिव रजोहरणादिना मृजन् संपरिमृजन्, गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम् । तत्र निविष्टस्य विधिः-भूम्यामेकमुरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत् , निश्चलस्थानासहिष्णुतया भूमी प्रत्युपेक्ष्य प्रमृज्य च कुक्कुटीविजृम्भित. दृष्टान्तेन सङ्कोचयेत्प्रसारयेद्वा, स्वपनपि मयूरवत् स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते इत्येवमादि सम्परिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यं भावितया यत् स्यात्तदाह-एगया' इत्यादि । एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामत सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यां चिदवस्थायां कायः शरीरं तसंस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः प्राणिन एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयवविध्वंसमापधन्ते । अपश्चिमावस्थां तु सूत्रेणैव दर्शयति-एके प्राणाः प्राणिनोऽपद्रान्ति-प्राणै विमुच्यन्ते । अत्र च कर्मबन्धं प्रति विचित्रता । तथा हि-शैलेश्यवस्थायां मशकादानां कायसंस्पर्शेन प्राणत्यागेऽपि पञ्चधोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकपायाभावात् सामयिका, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्त्तम, उत्कृष्टतश्चान्त:कोटाकोटिस्थितिरिति । प्रमत्तस्य खनाकुट्टिकतामुपेत्य प्रवृत्तस्य कचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यत उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । सचेतेनोपि भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-'इह लोग' इत्यादि। इहास्मिन् लोके जन्मनि वेदमनुभवनमिह लोकधेदनं तेन वेद्यमनुभवनीयमिहलोकरदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनापि यदि कायतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद्, आकुट्टिकृतकर्मणि तु यद्विधेयं तदाह 'जं आउट्टी' इत्यादि । यत्तु पुनः कर्माकुटया कृतमागमोक्तकारणमन्तरेणोपेत्य पाण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिजया विवेकमेति विविच्यतेऽनेनेति विवेकः

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278