Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२१७
योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात्, श स्वसम्मतं च योगानामारम्भत्वम् । तदुक्तं भगवतीवृत्तौ - " ननु ' मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव ' इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः ? उच्यते - आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात्, शेषपदेषु च शेषबन्धहेतुपरिग्रहः प्रतीत एवेति । ” एतच्चायुक्तम्, आरम्भादिशब्दत्रयेण योगाभिधानस्य दुर्घटत्वाद्, एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद्, योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च; नहि घटो घटनाशं प्रति प्रतिबन्धक इति । तस्मादे जनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवतीति भगवतीवृत्तावेवाग्रे व्यतिरेक प्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्व व्याख्यानमेव न्याय्यमिति । यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाज्जीवघातोऽभिमतः, तर्हि " जीवे णं भंते ! सया समिअं एयइ" इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा " सत्तहिं ठाणेहिं केवल जाणेज्जा " - इत्यादि विशेषसूत्र विरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः - इत्याद्युक्तं तदुपहा " पात्रम्, वृत्तिकृदभिप्रायोल्लङ्घनेन स्वस्यैव मतिकल्पनाया महानर्थहेतुत्वात्, 'सत्तहिं ठाणेहिं ' इत्यादिसूत्रस्य भिन्नविषयत्वेन प्रकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारेणानुपदर्शितत्वाच्चेति ॥ ६५॥
स्यादियमाशङ्का—सकलसयोगिगतैजनादि क्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम्, भगवतीवृत्तावेव सूक्ष्मपृथिव्यादीनां साक्षादात्मारम्भकत्वनिषेधाद्, एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानोत्पश्यनन्तरमेव केव - लिनोऽन्तक्रियाप्रसङ्गः । यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदाचिच साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध इत्यत्राह - 'आरंचाइजुमत्तं तस्सत्तीए फुडेई (हिं) ए उ तेहिं । तस्सत्ती विगमे पुण जोग गिरोहो अपडिबधो ॥ ६६ ॥
१ आरम्भादियुतत्वं तच्छक्त्यां स्फुटैर्न तु तैः । तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः ॥ ६६ ॥

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278