Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 226
________________ २१३ न च भणिता वस्त्रच्छेदाधिकारे; किं भगवतीवचनादारम्भस्स क्रियाविनाभावित्वमङ्गीकृत्यापि प्रतिबन्चैव पूर्वपक्षी (क्षिणा) दूषणं दत्तम् । तथाहि"आरंभमिट्टो जह आसवाय, गुत्ती य सेआय तहा तु साहू । णो फंद वारेहि व छिज्जमाणं, पइण्णहाणी व अतोऽण्णहा ते " ॥ ___ 'आरम्भमिट्टो' त्ति । मकारोऽलाक्षणिकः । हे नोदक ! यथाऽऽरम्भस्तवाश्रवाय कर्मोपादानायेष्टोऽभिमतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो !.मा स्पन्द, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनामिका चेष्टा क्रियते, यो वा तत्पतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः-स्ववचनविरोधलक्षणं दूषणमापद्यत इत्यर्थः ॥ अथ ब्रुवीथाः-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वानिर्दोष इति । अत्रोच्यते" २अदोस ते जइ एस सद्दो अण्णोवि कम्हा ण भवे अदोसो। अहिच्छया तुज्झ सदोस एक्को एवं सती कस्से भवे ण सिद्धी॥" : यद्येष त्वदीयः शब्दोऽदोषवान् , ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ; तस्यापि प्रमाणातिरिक्तपरिभोगविरूपादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वाभिप्रायेण तवैको वस्त्रछेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत्-सर्वस्यापि वा गाढवचनमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः। ततश्चास्माभिरप्येवं वक्तुं शक्यम्, योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः, शब्दत्वाद् , भवत्परिकल्पितशब्दवदित्यादि तत्तस्मात्कारणात्तत्र वस्त्रच्छेदाधिकारे सम्मतिवचनं प्रज्ञप्तेः “जीवे णं एस जीवे"इत्यादि नान्यार्थं किं त्वेजनादिक्रियाणामारम्भाविनाभावित्वप्रतिपादकमेव, अन्यथैतदर्थसमर्थनार्थमेतत्सूत्रमुपन्यस्तवन्तं तं पूर्वपक्षिणमन्यार्थप्रदर्शनेनैतदभिप्रायानभिज्ञमवक्ष्यत् कल्पभाष्यकृदिति । अस्मादेव भगवतीसूत्रादबाधितयथाश्रुतार्था १ आरम्भ इष्टो यथाऽऽसवाय गुप्तिश्च श्रेयसे तथा च साधो !। __ नो स्पन्द वारय वा छियमानं प्रतिज्ञाहानिर्वाऽतोऽन्यथा ते ॥ २ अदोषवान् ते यदि एष शब्दः, अन्योपि कस्मान्न भवेददोषः । सदोष एक एवं सति कस्य भवेन्न सिद्धिः ॥ अया

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278