Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 217
________________ २०४ C ates and strai सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गि अंति । ” एतद्वृत्तिर्यथा - स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित्परो गृहस्थः ' अभिहट्टु अंतो ' इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं उद्भिज्जं वा लवणाकराद्युत्पन्नं ‘परिभाइ' त्तत्ति दातव्यं विभज्य दातव्यद्रव्यात् कञ्चिदेशं गृहीत्वेत्यर्थः । ततो निःसृत्य दद्यात् तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्चाहच्चे 'ति सहसा प्रतिगृहीतं भवेत् । तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्नलवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेद्, एतच्च ब्रूयाद् ' अमुक' इति वा, भगीनीति वा ! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् यथा पूर्वं मयाऽजानता दत्तम्, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत् परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिभ्यो दद्यात्, तदभावे बहुप र्यापन्नविधिं प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्र्यमिति । " " न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भव - तीति शङ्कनीयम, अधिकृत पुरुषविशेषेऽधिक निवृत्तितात्पर्यावगाहित्वेनास्य निरवद्यत्वाद्, अन्यथा देशविरत्युपदेशोऽपि न स्यात्, तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्थावरहिंसाप्रतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः । यत्तु 'जलं वस्त्रगलितमेव पेयम्' इत्यत्र " सविशेषणे० " इत्यादिन्यायाज्जलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद्, यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनिर्युक्तौ - " " उस्सिंचण - गालण--धोअण्णे य उवगरण- कोस भंडे अ । बायरआउक्काए एयं तु समासओ सत्थं " || ति ॥ अत्र गालनं 'घन - मसृणवस्त्रार्द्धान्तेन ' इति वृत्तौ सम्पूर्य व्याख्यातम् । तच्च त्रिविधं त्रिविधेन निषिद्धमिति विधिमुखेन तदुपदेशे निषिद्धस्यापवादतस्तयोपदेशाविरोधाद्, निषिद्धमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति । यत्तूक्तं द्रव्य हिंसाया अप्यनाभोगवशादयतनाजन्यत्वेन निषिद्धत्वमेवेति । तत्रायतनाजन्य हिंसायाः कटुकफ १ १. उत्सेचनगालन- धावनं चोपकरण-कोशभाण्डं च । बादराकाये एतत्तु समासतः शस्त्रम् ॥

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278