Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 218
________________ २०५ लहेतुत्वात् , तत्राशयशुद्ध प्रतिबन्धिकाया यतनातिरिक्ताया असिद्धः, तस्याचायतनया सह विरोधात्, स्थूलयतनायां स्थूलायतनायाः प्रतिबन्धकत्वेन सूक्ष्मा यतनाकल्पने प्रमाणाभावाद्, अयतनासत्त्वेऽप्रमत्तानामप्रमत्ततासिद्धेः । या च सूक्ष्मा विराधना द्वादशगुणस्थानपर्यन्तमालोचनाप्रायश्चित्तबीजमिष्यते सा न सूक्ष्मायतनारूपा, सूक्ष्माया अप्ययतनायाश्चारित्रदोषत्वेनोपशान्तक्षीणमोहयोर्यथाख्यात चारित्रिणोस्तदनुपपत्तेः; किन्त्वनाभोगलक्षणसूक्ष्मप्रमादजनितचेष्टाश्रवरूपा,अत एव द्वादशगुणस्थानपर्यन्तम् , तन्निमित्तालोचनाप्रायश्चित्तसम्भवः। तदुक्तं प्रवचनसारोद्धारवृत्तौ--" इयं चालोचना गमनागमनादिष्ववश्यकर्त्तव्येषु सम्यगुपयुक्तस्यादुटभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् , केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । आहयतीनामवश्यकर्त्तव्यानि गमनागमनादीनि तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्याप्रमत्तस्य किमालोचनया ? तामन्तरेणापि तस्य शुद्धत्वाद्, यथासूत्रं प्रवृत्तेः । सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्वयन्तीति तच्छुद्धिनिमित्तमालोचनेति । तथा व्यवहारदशमोद्देशकवृत्तावप्युक्तं-निर्ग्रन्थस्यालोचना-विवेकरूपे द्वे प्रायश्चित्ते, स्नातकस्यैको विवेक इति । तथाऽऽलोचना गुरोः पुरतः स्वापराधस्य प्रकटनम्, कचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये हस्तशतात् परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् । यतेरवश्यकृत्ये गमनागमनादौ निरतिचारस्यालोचनां विनाऽपि कथं न शुद्धिः, यथासूत्रं प्रवृत्तेः । सत्यम् ; परं याश्चेष्टानिमित्ताः सूक्ष्मा आश्रवक्रियास्तासां शुद्वयर्थमालोचनेति । तथा ' यतिजीतकल्पवृत्तावप्युक्तम्--" अत्राह शिष्यः-- निरतिचारो यतिः करणीयान् योगान् करोति, ततः किमालोचनया विशोध्यम् ? गुरुराह-सूक्ष्मा आश्रवक्रियाः सूक्ष्मप्रमादनिमित्तका अविज्ञातास्तासामालोचनमात्रेणशुद्धिरित्यादि । नथा पश्चाशकसूत्रवृत्त्योरप्युक्तम् "ता एवं चिय एवं विहियाणुट्ठाणमेत्य हवइत्ति । कम्माणुबंधछेअणमणहं आलोअणाइजुरं ॥" १ तत एवमेवैतद् विहितानुष्ठानमत्र भवतीति । कर्मानुबन्धच्छेदनमनघमालोचनादियुतम् ॥

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278