Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 222
________________ २०९ भिधानाद् विरुद्धधर्माभ्यां तदभावस्येव तद्वद्भेदस्यापि सम्भवेन तच्छून्यत्वन्यव - हारोपपत्तेः । हिंसास्वरूपमधिकृत्य तु द्रव्यमात्रहिंसायामप्यहिंसात्वं प्रवचने प्रतीतमिति कदाचिद् द्वितोयभङ्गस्वामित्वेऽपि भगवतः स्नातकस्य निर्ग्रन्थस्येव चतुर्थभङ्गस्वामित्वाऽविरोध एव, अहिंसापरिणत्यभेदाश्रयणेन तद्भङ्गस्यापि सम्भवदुक्तिकत्वात् । न चैवं द्वितीयभङ्गकालेऽपि चतुर्थभङ्गापत्तिर्द्र व्यहिंसाकालेऽप्यप्रमत्तयतीनां मनोवाक्कायशुद्धखानपायादिति वा वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्का शुद्धताया गुप्तिरूपाया एव ग्रहणाद् अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव विरोधव्यापारेणापि मनोवाक्कायशुद्धताऽनपायाद्, अन्यथा तदविनाभाविध्यानानुपपत्तेः । उक्तं हि-ध्यानं करणानां सत्प्रवृत्ति-निरोधान्यतरनियतम् - 66 3 'सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । ज्ञाणं करणाणमयं ण उ चित्तणिरोहमेत्तागं ॥ इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्योपरतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति । सर्वोत्कृष्टमनोवाक्कायशुद्धतयाsयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामी युज्यत इति । न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्व नियमानुपपत्तिः, द्रव्य हिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात्, तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसञ्जकत्वादिति दिक् ॥ ६१ ॥ यदि च ' न द्रव्यतो न भावतो मनोवाक्कायशुद्धस्य साधोः ' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न घटेतेत्याह'पयमं चिय वयणमिणं दट्ठवं होइ कप्पन्नासस्स । जं मत्ताईणां सजों गिचरमाण णो हिंसा ॥ ६३ ॥ व्याख्या – ' पयडं चियति । प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं १ सुदृढप्रयत्नव्यापारणं निरोध इव विद्यमानानाम् । ध्यान करणानामयं न तु चित्तनिरोधमात्रकम् ॥ २ प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य । यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा ॥ ६२ ॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278