Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 197
________________ कर्मबन्धस्य कारणम्, अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञातभावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि तदेवं वध्यवधकयो विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति ॥” तथाहि-यजीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो नहि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन. व्यापादयितुमशक्यत्वाद्, अपि विन्द्रियादिव्यापत्त्या । तथा चोक्तम् पश्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा॥” इत्यादि। अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः। तथा हि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति, तथापि न वैरानुषङ्गो भवेद्, दोषाभावात् । अपरस्य तु सर्पबुद्धया रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति । उक्तं चागमे-''ऊचालिअंमि पाए' इत्यादि । तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव । तदेवं वध्यवधकभावापेक्षया स्यात् सदृशत्वम्, स्यादसदृशत्वमिति, अन्यथाऽनाचार इति । एतेन लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरिति परस्य यत्र तत्र प्रलपनमपास्तम् । अपि चैवमापवादिकोऽपि वधो महानाय सम्पद्यते, ज्ञानादिहानिनिवारणमात्राभिप्रायस्य संयमपरिणतेऽ(रन)पायहेतुत्वेऽपि तत्कृतवधे लौकिकपातकत्वव्यवहारविषयत्वेनाशुद्धवानिवृत्तेः। पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं वृहत्कल्पभाष्ये “२गीयत्थो जयणाए कडजोगी कारणमि णिहोसो। एगेसिं गोयकडो अरत्तदुट्टो य जयणाए ॥ १॥ त्ति । तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थिसम् । अत एव विरताविरतयोर्जानतोरजानतोश्च विराधनायां यतनानिमितकाऽध्यात्मशुद्धि-तदशुद्धिविशेषात् कर्मनिर्जराबन्धविशेषो व्यवस्थितः । तदुक्तं वृहत्कल्पभाष्यवृत्त्योद्वितीयखण्डे-अथ ज्ञाताज्ञातद्वारमाह- . १ उच्चालिते पादे । २ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः । एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया ॥ ..

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278