Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 195
________________ १८२ धमिति संयमो दुराराधो भणितः । एवं सम्यक् प्रयत्नपरायणानामपि कदाचित् कुन्ध्वादिस्थूलत्रसजीवविराधना स्यात् । सा च प्रायोऽसम्भविसम्भवेनावश्यभाविनीति वक्तव्यम् । शक्यपरिहारजोवविषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात्साऽप्यवश्यंभाविनी, विराधना द्वेषा - अनाभोगमूला अनाभोगपूfast, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्य (द्या) जीवघाते जाते सत्येव तत्परिज्ञानाद । द्वितीया तु निम्नमदेशादौ पिपीलिकादिकमवोत्पाटिते पादे दृष्ट्वाऽपि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानत्वात् परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तज्जन्यकर्मबन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्कर्त्तुहिंसाव्यपदेशहेतुत्वात्, तथाव्यपदेशः स्थूल सजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् । न चैवं केवलिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याभ्छद्मस्थ साक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात् । अत एवाब्रह्म सेवायामनेकशतसहस्रपञ्चेन्द्रियजीवविराधकोsपि देशविरतिश्रावको ' जीवविराधकः' इति व्यपदेशविषयो न भवति, (भवति) चैकस्या अपि पिपीलिकाया विराधनेनाभोगेनापि; आभोगे च स्वज्ञातिज्ञातेऽपांतेयोऽपि स्यात् तेन निजसाक्षात्कारविषयीभूताविषयीभूतयोजीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्यावादिभ्योऽपि जीवघातक - त्वेनाधिको वक्तव्यः स्यात् - इत्यादि परस्य कल्पनाजालमपास्तम्, संयतानां नद्युतारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवादुष्टत्वात् । यच्च तया न संयमस्य दुराराधत्वम्, तस्याः कादाचित्कत्वादालम्बनशुद्धत्वाच्च । यथा च कुन्धूत्पत्तिमात्रेण सार्वदिकयतनाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वम्, तथा तथाविधक्षेत्रकालादिवशात् सूक्ष्मवीजहरितादिप्रादुर्भावेऽपि सार्वदिकतद्यतनाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वमेवेति तु 'दशवैकालिका' ग्रध्ययनवतामपि सूक्ष्माष्टकविदां परिणतलोकोत्तरदयास्वरूपाणां प्रतीतमेव । स्थावरसूक्ष्मत्रस विषयकोsनाभोगः केवलज्ञानं विना दुरत्यय इति तु सूक्ष्माष्टकयतनाविधानान्यथानुपपश्यैव वाधितं परिणामशुद्धयर्थं तद् नतु तदाभोगार्थम् इत्येवं तदाभोगापलापे च स्थूलत्रसाभोगाभ्युपगमोऽप्युच्छिद्येत, तत्रापीत्थं वक्तुं शक्यत्वात्, चेष्टा लिङ्गाभिव्यक्तेः स्थूलत्रसाभोगोऽभिव्यक्त एवेति चेत् पृथिव्यादिजीवाभोगोऽपि जिनवचना भिहित लिङ्गादाज्ञाप्रामाण्याद्वा किं नाभिव्यक्तः ? व्यक्तीयत्तया नाभोगस्तु मनाक्स्पन्दस्कुन्थु तदनुकारिरजखुटिपुत्रेऽपि वक्तुं शक्यत इति न किञ्चिदेतत् । ततो यतनां "

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278