Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 210
________________ १९७ 4 दप्रतिषेवणेऽप्यनादिसिद्धकल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधको जिनोपदेशो भवति । तथा साध्या उपसर्गकर्त्तारमधिकृत्य " पंचिदियववरोवणा कप्पिअ "त्ति निशीथचूर्णावुक्तं न पुनः स हन्तव्य इति विधिमुखेन जिनोप्रदेशो भवति; २ सव्वे पाणा सव्वै भूआ सव्वे जीवा सव्वे सत्ता न हन्तव्वा " इत्याद्यागमेन विरोधप्रसङ्गात् । यच्च दशाश्रुतस्कन्धचूर्णी - 1 - " ३ अवण्णवाई पडिहणेज्ज' ति " मिभणितं तदाचार्य शिष्याणां परवादनिराकरणे सामर्थ्यं दर्शितम् । यथा - " ४ च्छदिट्ठी पsिहसु सम्मत्तं थिरं होइ " त्ति श्रीसूत्रकृदङ्गचूर्णो भणितम् । अत एव “ “साहूणं चेइआण य' इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येवं भणितम्, न पुनर्जिनप्रवचनाहितकर्त्ता ' हन्तव्य ' इति, जैनानां तथाभाषाया वक्तुमप्यनुचितत्वात् । यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादनं कादाचि कं भवत्यपि, तथापि स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनोव्यापारवानपि केवली न भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्याख्यातत्वाद् । न चापवादिकस्तथाव्यापारः सावद्यो न भविष्यतीति शङ्कनीयम, यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तर्हि सर्वोत्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति ? परं पञ्चेन्द्रियव्यापादनभयेन यदि सति सामर्थ्यं प्रवचनाहितं न निवारयति, तर्हि संसारवृद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम् । अहितनिवारणे च क्रियमाणे कदाचित्पञ्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिप्रच्याशयस्य शुद्धत्वाज्जिनाज्ञाऽऽराधकः सुलभबोधिश्वेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् । एवं जिनोपदेशेन वस्तुस्वरूपमवगम्य स्वत एव यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्पयाकल्प्यतावबोध एव चरितार्थत्वाज्जलजीवविराधनानुज्ञा केवलिनः कलङ्क एव । न च नद्युत्तारस्य कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम्, अचित्तजलनद्युत्तारस्य भावापघ्या तस्या नद्युत्तारे कारणत्वाभावात् । तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति । एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम् ' इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपानं चोपदिष्टं भविष्यतीति शङ्काऽपि परास्ता । यतः “ सविशेषणे० " इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम, १. पञ्चेन्द्रिय व्यपरोपणा कल्प्या इति ॥ २. सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः ॥ ३. अवर्णवादिनं प्रतिहन्यात् । ४. मिथ्यादृष्टिषु प्रतिहतेषु सम्यक्त्वं स्थिरं भवति । ५ साधूनां चैत्यानां च ।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278