Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
१७८
त्वस्यायि सम्भवेन ' स्यादक्रियः' इति भङ्गन्यूनत्वादिति चेत्, स्वसहचरिते स्वकार्ये वा ज्ञानावरणीये प्राणातिपातस्य परिसमाप्तिनिर्वृत्तिभेदम कारोपदर्शनपरमेतत् सूत्रम्, न तु तद्बन्धे क्रियाविभागनियमप्रदर्शनपरम् - इत्येषा गतिरिति गृहाण । तदुक्तं तद्वृत्तौ - " जीवः प्राणातिपातेन सप्तविधमष्टविधं वा कर्म बध्नाति, स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बध्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यन्ते । अपि च कार्येण ज्ञानावरणीयाख्येण कर्मणा कारणस्य प्राणातिपाताख्यस्य निर्वृत्तिभेद उपदर्श्यते, तद्भेदाच्च बंधविशेषोऽपीति । उक्तं च- "तिसृभिश्चतfate पञ्चभिश्च क्रियाभिर्हिसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्याद् योगद्वेषसाम्यं चेद् । इति तमेव प्राणातिपातस्य निर्वृत्तिभेदं दर्शयति- "सिय तिकि.रिए ' इत्यादीति ॥ अथैवमप्रमत्तस्यैवाक्रियत्वस्वामिनः सुलभत्वाद् भगवतीवृत्तौ अक्रियत्वं वीतरागावस्थामाश्रित्यैव कथमुपपादितम् ? इति चेत्, स्पष्टत्वार्थम् । बादरसम्परायं यावत् प्रद्वेषान्वयेन त्रिक्रियत्वाभ्युपगमेऽपि सूक्ष्मसम्परायस्याक्रियत्वस्थानस्य परिशिष्टत्वेनैतदुपपादनार्थम, एतत्प्रकारस्यावश्याश्रयणीयत्वात् । प्रद्वेषाभावेन तत्र कायिक्यधिकरणिकीक्रियाभ्युपगमे च कायिक्यादिक्रियात्रयस्य परस्परं नियमानुपपत्तिरिति । कायिकी क्रिया द्विविधा - अनुपरतकायिकी क्रिया दुष्प्रयुक्तकायिकी क्रिया चेति सिद्धान्तेऽभिधानात् कायिकी क्रियाssरम्भिक्या समनियता, प्राणातिपातिकी च प्राणातिपातव्यापारफलोपहित्वात् तद्वयाप्यैवेति प्रतिपत्तव्यम्, तत आरम्भकत्वं प्राणातिपातकत्वं च सत्यामपि द्रव्यहिंसायां प्रमतस्यैव नाप्रमत्तस्येति भगवतस्तया तदापादनमयुक्तमेवेति दिक् ॥ ५५ ॥
I
अथावश्यंभविन्यां जीव विराधनायामाभोगवतो भगवतो यद् घातकत्वमापद्यते तत्किं लोकोत्तरव्यवहाराद्, उत लौकिकव्यवहाराद्, उताहो स्वमतिविकल्पितव्यबहाराद् ? नाद्यः, लोकोत्तरघातकत्वव्यवहारे आभोगेन जीवविराधनामात्रस्यातन्त्रत्वाद्, आभोगेनापि जायमानायां तस्यामपवादपदप्रतिषेविणोऽघातकत्वस्य, अनाभोगेनापि जायमानायां तस्यां प्रमादिनो घातकत्वस्य च तद्व्यवहारेणेष्टत्वाद् । नापि द्वितीयः, यतो लोका अपि नाभोगेन जीवघातमात्रादेव घातकत्वं व्यबहरन्ति, कूपनष्टायां गवि तत्कर्त्तुर्गोवधकर्तृत्वप्रसङ्गाद्, गोराभोगस्यापि तदा स्फुटत्वाद्, आभोगजन्यत्वस्य च हिंसायामसिद्धत्वाद् । हिंसायां हि जिघांसाहेतु राभोगस्त्वन्यथासिद्ध इत्येतद्देोषवारणार्थं मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिंसा वक्तव्या, तथापि काशीमरणोद्देशपूर्वकानुष्ठाने आत्महिंसात्वापत्तिवारणार्थमदृष्टा

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278