Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 180
________________ १६७ इत्यनुभवसिद्धम् । केवलिनस्तु योगाः पराभिप्रायेणानाभोगमोहनीयाद्यभावेन परिशेषात् केवलज्ञानसहकृता एव जीवघातहेतवो भवन्ति, केवलज्ञानेन' एताव - तो जीवा अमुक्षेत्रादौ ममावश्यं हन्तव्याः' इति ज्ञात्वैव केवलिना तद्घातात्, तथा च तस्य जीवरक्षादिकं कदापि न भवेत्, केवलज्ञान सहकृततद्योगानां सदा घातकत्वात्, जीवघातस्येव जीवरक्षाया म ( अ ) प्यवश्यभावित्वेन परिज्ञानाद्, उभयत्र केवलज्ञानस्य सहकारिकारणत्वकल्पने च केवलिनो योगानां जीवघावजीवरक्षातू शुभाशुभत्वे सर्वकालं युगपद् भवतः एतच्चानुपपन्नम्, परस्परं प्रतिबन्धकत्वादित्येकतरस्याभ्युपगमे पराभिप्रायेण सर्वकालमशुभत्वमेव सिद्धयतीति हन्तव्यचरमजीवहननं यावद्धिसानुबन्धिरौद्रध्यानप्रसङ्ग इति - एतद्वचनं परस्य प्रक्षिप्तम्, संरक्षणभावस्य संरक्षणानुबन्धिरौद्रध्यानस्य सादृश्याद् द्रव्यपरिग्रहाभ्युपगमे भगवतस्तुल्ययोगक्षेमत्वात् । शक्यं ह्यत्रापि भवादृशेन वक्तुम्, छद्मस्थसंयतानां परिग्राह्यवस्तुविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापाराः परिग्रहग्रहणहेतवतः, अत एव च परिग्राह्यवस्तुविषयकाभोग सहकृत तथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टाः परिग्रहत्यागहेतव इत्यनाभोगमोहनीयाभावे hafoयोगानां परिग्रहग्रहणे केवलज्ञानमेव सहकारिकारणमिति यावत्केवलिनो धमोंपकरणधरणं तावत् संरक्षणानुबन्धिरौद्रध्यानमक्षतमेवेति । द्रव्यपरिग्रहेऽभिलाषमूलसंरक्षणीयत्वज्ञानाभावान्न रौद्रध्यानमिति यदि विभाव्यते, तदा द्रव्य हिंसायामपि स्वयोगनिमित्तक हिंसा प्रतियोगिनि जीवे स्वष्टहिंसाप्रतियोगित्वरूपघात्यत्वज्ञानाभावादेव न वदिति प्रगुणमेव पन्थानं किमिति न वीक्षसे ? ॥ ५१ ॥ अथ वस्त्रादिधरणं साधोरुत्सर्गतो नास्त्येव, कारणिकत्वात् ; " " तिहिं ठाणेहिं वत्थं धरेज्जा, हिरिवत्तियं परीसहवत्तियं दुगंछावत्तियं' इत्यागमेऽभिधानात् किन्वापवादिकम् । तद्धरणकारणं च जिनकल्पायोग्यानां स्थविरकल्पिकानां सावैदिकमेव, निरतिशयत्वादिति तद्धरणमपि सार्वदिकं प्राप्तम् । तदुक्तं विशेषावश्यके" विहियं सुए चिय जओ धरेज्ज तिहि कारणेहिं वत्थं ति । तेणें चिय तदवस्सं णिरतिसरणं धरेयव्वं ॥ १ त्रिभिः स्थानैः वस्त्रं धारयेत् - हीप्रत्ययं परिषप्रत्ययं जुगुप्साप्रत्ययम् ॥ २ विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैः वस्त्रमिति । तेनैव तदवश्यं धारयितव्यं निरतिशयेन ॥ जिनकल्पायोग्यानां हीकुत्सा परिषहा यतोऽवश्यम् ! ही उज्जेति वास संयमस्तदर्थे विशेषेण ॥ इति

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278