Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 178
________________ जीवघातजन्या, किन्तु प्रमत्तयोगजन्या; “ 'सही पमत्तजोगो आरंभोति वचनात्; अन्यथाऽऽरम्भिकी क्रिया कस्यचित्पमत्तस्य कादाचित्क्येव स्यात्, तत्कारणस्य जोपघातस्य (कस्य )चित्कादाचित्कखात, अस्ति चारम्भिकी क्रिया प्रमत्तगुणस्थानं यावदनवरतमेव । किश्च-यदि जीवघातेनारम्भिकी क्रिया भवेत् । वदाऽपरोऽप्रमतो दरे, उपशान्तवीतरागस्याप्यारम्भिकी क्रिया वक्तव्या स्याद: अस्ति च तस्य सत्यपि जोवधाते ईपिथिक्येव क्रियेति न जीवघातात्संयवस्यारम्भिको क्रिया, किन्तु प्रमत्तयोगादिति स्थितम् । स च प्रमत्तो योगः प्रमादैभवति । ते च प्रमादा अष्टधा शास्त्रे प्रोक्ताः-१ अज्ञान-२ संशय-३ विपर्यय-४ राग५ देष-६ मतिभ्रंश-७ योगदुष्पणिधान-८ धर्मानादरभेदात् । ते चाज्ञानवर्जिताः सम्यग्दृष्टेरपि सम्भवन्तोऽतः प्रमत्तसंयतपर्यन्तानामेव भवन्ति न पुनरममत्तानामपि, प्रमादाप्रमादयोः सहानवस्थानात् । तेनेहाष्टासु प्रमादेषु यौ रागद्वेषौ प्रमादत्वेनो. यात्तौ (तो) योगानां दुष्पणिधानजननद्वाराऽऽरम्भिकीक्रियाहेतू ग्राह्यौ: तयोश्च तथाभूतयोः फलोपहितयोग्यतया जीवघातं प्रति कारणवस्य कादाचित्कत्वेऽपि स्वरूपयोग्यतया तथात्वं सार्वदिकमेव । यद्यपि सामान्यतो रागद्वेषावप्रमत्तसंयतानामपि कदाचित्फलोपहितयोग्यतयापि जीवघातहेतू भवतस्तथापि तेषां तौ न प्रमादौ; यतनाविशिष्टया प्रवृत्त्या सहकृतयोस्तयोरारम्भिकीक्रियाया अहेतुखाव: तदप्यनाभोगसहकृतयतनाविशिष्टयो रागद्वेषयोर्योगानां दुष्पणिधानजनने साम •भावात् , सम्यगोर्यया प्रवृत्या तयोस्तथाभूतसामर्थ्यस्यापहरणात् , । न चैवं प्रमत्तानां सम्भवति, तेषामयतनया विशिष्टयोस्तयोर्योंगानामशुभताजनकत्वेनारम्भिकीक्रियाहेतुखाद्, अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहकृतानाभोगजन्यम् । तदुक्तं दशवैकालिकवृत्तौ-"अयतनया चरन् प्रमादानाभोगाभ्यां प्राणिभूतानि हिनस्तीति " । ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति । तत्र प्रमत्तसंयतानामपवादपदप्रतिषेवणावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिप्रायेण संयमपरिणामानपायाद्रव्यखम्, अन्यावस्थायां खनाभोगाद् । अप्रमत्तसंयतानां खपवादानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यदिनाभोगसहकृतमविशेषितं मोहनीयं कर्मैव जीवघातादिकारणं सम्पन्नम्, तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानांतु मोहनीयानाभोगाभ्यां द्रव्याश्रवपरिणतिरिति सिद्धमिति ॥ १ सर्वः प्रमत्तयोग आरम्भ इति. .

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278