Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 410
________________ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३७७ ११९९ - सन्धान- कारणं तेजो न्यर्गभूत् ते, कृथास् तथा, ॥ यत् त्वं वैराणि कोशं च सह - दण्डमजिग्लप:.' १८ सन्धानेत्यादि - तथा त्वमकृथाः कृतवानसि । '२५४७ | तनादिभ्यस्त - थासोः | २|४|७९ |' इति सिचो लुक् । यथा सन्धानकारणं सन्धानहेतुकं यत्तव तेजः प्रचण्डत्वं तत् न्यगभूत् न्यग्भूतम् । '२३२३| गाति-स्था - | २|४|७७।' इति सिचो लुक् । कुत इत्याह । यत्त्वं वैराणि शत्रुभावान् कोशं च सहदण्डं ससैन्यमजिग्लपः ग्लपितवानसि । ग्लायतेण पुकि 'ग्ला - स्त्रा-वनु-वमां च' इति मिवात् हस्वत्वम् । ग्लपयतेश्चङि रूपम् । यदि हि तेजो भवेत् सर्वे तथावस्थितमेव स्यात् ततश्च तेजसो ऽभावात् कथं सन्धानं द्वयोः परस्परानुपतापात् । यथोक्तं यावन्मात्रमुपकुर्यात् तावन्मात्रमेवास्य प्रत्युपकुर्यात् । तेजो हि सन्धानकारणं तप्तं लोहं तप्तेन लोहेन सन्धत्त इति ॥ १२०० - अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्ण दशाननः ॥ 'किं त्वं माम॑जुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्. १९ अक्रुधदित्यादि - अथैवमुक्ते दशाननः भक्रुधत् क्रुद्धवान् । पुषादित्वादङ् । क्रुद्धश्च कुम्भकर्णमभ्यधात् अभिहितवान् । '२२२३ । गाति -स्था- १२।४।७७१' इति सिचो लुक् । किमिति एवं मां अजुगुप्सिष्ठाः निन्दितवानसि । स्वविक्रमं नैदिध न वर्धितवानसि । एषधातोर्ण्यन्तस्य चढि स्थानिवद्भावात् '२१७६ | अजादेर्द्वितीयस्य | ६|१|२| ' इति धिशब्दो द्विरुध्यते ॥ १२०१ - मोनिग्रहः सु- नीतानि, मा स्म क्रंस्था न संयुगे, ॥ मौपालब्धाः कृतैर् दोषैर् मा न वाक्षीर् हितं परम् . ' २० मोजिग्रह इत्यादि - सुनीतानि सुनयान् मा उजिग्रहः मा उद्धाहय । ग्रहेर्ण्यन्तस्य चङि रूपम् । संयुगे युद्धे विषयभूते मा क्रंस्था मोत्साहं न कार्षीः अपि तुत्सहस्व । '३२२० | स्मोत्तरे लड् च | ३|३|१७६ ।' इति चकाराल्लुङ् । ‘२७११। वृत्ति-सर्ग -।१।३|३८|' इत्यादिना क्रमेः सर्गे उत्साहे तङ् । दोषैः अस्मस्कृतैः मोपालब्धाः मोपालभस्व । ' २२८१ । झलो झलि | ८ | २|२६|' इति सिचो लोपः । '२२८०। झषस्तथोर्धो धः | ८|२|४०|' '५२ | झलां जश् झशि |८|४|५३ | ' हितं परं कार्यस्य मा न वाक्षीः मा न वह किन्तु वह । वहेरनिटो हलन्तलक्षणा वृद्धिः । ढत्वकत्वषत्वानि ॥ १२०२ - कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा ऽन्यान् न्यवीवृतत्. ॥ उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः ॥ २१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514