Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 467
________________ ४३४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण रूपे चतुर्थी वर्गः, राक्षस इत्यादि - राक्षसो रावणः सूतमत्तर्जयत् भसितवान् । 'हा पाप ! किं शत्रुसमीपाद्रथं परामुखयसि' इति । इत्थं संतर्जितः सूतः पुनरपि रथमडौकयत् ढौकितवान् । रामसमीपमित्यर्थात् । उभौ रामरावणौ ब्राणान्निरास्येतां क्षिप्तवन्तौ । 'उपसर्गादस्यत्यूह्योर्वा' इति तङ् । धुर्यानश्वान विध्यतां ताडितवन्तौ ॥ १४५० - उभावकृन्ततां केतून व्यथेतामुभौ न तौ ॥ 1 अदीयेतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम् १०४ उभावित्यादि - तावुभौ रामरावणौ केतून् ध्वजानकृन्ततां छिन्नवन्तौ । तावुभौ नाव्यथेतां न व्यथितवन्तौ । उभावदीप्येतां शोभितवन्तौ धृष्णू च प्रगल्भौ नैपुणं कौशलं प्रायुञ्जातां प्रयुक्तवन्तौ ॥ १४५१ - उभौ मायां व्यतायेतां वीरौ नम श्राम्यतार्मुभौ ॥ मण्डलानि विचित्राणि क्षिप्रम क्रामतामुभौ ॥ १०५ ॥ " उभौ मायामित्यादि - तावुभौ माथां व्यतायेतां विस्तारितवन्तौ । '५२३। तायृ सन्तानपालनयोः ' भ्वादौ । उभौ वीरौ नाश्रामतां न श्रान्तौ । युध्यमानौ च तावुभौ मण्डलानि विचित्राणि मतिवैचित्र्यात् क्षिप्रमाक्रामतां भ्रान्तौ । '२३२१। वा भ्राश-|३|१|७० | ' इति शप् ॥ १४५२ - न चौभावप्यलक्ष्येतां यन्तारावा॑ह॒तामुभौ ॥ " स्यन्दनौ समपृच्येतामुभयोर् दीप्त वाजिनौ ॥ १०६ ॥ 1 न चेत्यादि - तावुभौ नाप्यलक्ष्येतां प्रेक्षकैर्न ज्ञातौ । 'अयं रामः अयं च रावणः' इति । कर्मणि लङ् । यन्तारौ सूतौ । कर्मपदमेतत् । उभौ परस्परस्य । भहतामाहतवन्तौ । '२४२८| अनुदात्तोपदेश | ६|४|३७|' इत्यादिनानुमासिकलोपः । स्यन्दनौ रथौ उभयोः रामरावणयोः दीप्तवाजिसौ चामरादिमण्डनात् दीक्षा उज्वला वाजिनो ययोः तयोः खन्दनौ समपृच्येतां संपृक्तौ । '१५५७। 'पृची सम्पर्के' । कर्मणि लड् ॥ १४५३ - ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे, ॥ रामेणैकशतं तेषां प्रावृश्यत शिलीमुखैः ॥ १०७ ॥ · तत इत्यादि - ततोऽनन्तरं राक्षसः मायामयान् मायास्खभावान्मूर्भः शिरांसिप्रथयत् प्रदर्शितवान्। 'प्रथ प्रख्याने' इति घटादौ । तेषां च शिरसास् एकशतं एकाधिकं शतं रामेण शिलीमुखैः शरैः प्रावृश्यत छिन्नम् । कर्मणि लड् ॥ १४५४ - समक्षुम्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः, ॥ सन्त्रासमबिभः शक्रः, फ्रैंखच्चे, क्षुभिता क्षितिः. १०८ समक्षुन्नन्नित्यादि – छिद्यानां च पततां क्षोभादुदन्वन्तः सागराः समक्षुअन् सञ्चलिताः । ' १६१७। शुभ सञ्चलने' इति क्यादिः । महीभृतः प्राकम्पन्त Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com "

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514