Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४६८ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे ऽष्टमो वर्गः,
को वा विश्वजनीनेषु
कर्मसु प्राघटिष्यत ॥ १७ ॥ क इत्यादि-यदि नारायणो न भवान् तदा तस्मादन्यः को नाम सुरद्विषां राक्षसानां हप्तानां प्राणानकर्त्यत् छिन्नवान् । 'कृती च्छेदने । नैव । विश्वजनीनेषु सर्वलोकहितेषु कर्मसु अनुग्रहलक्षणेषु को नाम प्राघटिष्यत चेष्टितवान् । अत्राच्छेदनक्रियाया अघटनक्रियायाश्च तद्विरुद्धच्छेदनघटनोपनिपातादतिपत्तिः । सर्वत्र '२८०१॥ किंवृते लुङ्लुटौ ।३।३।३४४।' इति क्रियातिपत्तौ भूते गर्दायां लङ् ॥ १५८५-दैत्य-क्षये महा-राज! यच्च यत्रा ऽघटिष्यथाः ॥
समाप्तिं जातु तत्रापि किंनाऽनेष्यस्त्वमीहितम्.१८ दैत्यक्षय इत्यादि-हे महाराज! नैवेदमवकल्पयामि दैत्यक्षयनिमित्तम् यच्च यत्र त्वमघटिष्यथाः या पुनरात्मनो घटनां करिष्यसि किन्तु पुनः प्रादुर्भावे घटिष्यसे । तत्रापि प्रादुर्भावत्वमीहितं चेष्टितं जातु कदाचित् समाप्ति सिद्धिं नानेष्यः किं न नेष्यसि । '२८०४। जातुयदोलिङ् ।३।३।१४७।' इति जातुयच्छन्दौ अनवक्लप्तिश्च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भविष्यति नित्यं लङ् । अत्राघटनक्रियायाश्चातिपत्तिः ज्ञानेनोपलब्धभविष्यत्प्रादुर्भावसमाप्तिनयनयोस्त. द्विरुद्धयोरुपनिपातात् ॥ १५८६-तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम् ॥
सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान्. ॥१९॥ तातमित्यादि-तातं दशरथं कैकेय्या प्रपीडितं सन्तापितं भरताय भरतार्थ राज्येऽभिषिच्यतामिति प्रसाद्य तद्विषये चित्तकालुण्यं त्याजयित्वा रामः सहस्रचक्षुषं इन्द्रं परिदृष्टवान् संदृष्टवान् । निनंसुः नन्तुमिच्छुः ॥ १५८७-प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततः॥
संजाताः फलिना ऽऽनघ-रोचिष्णु-द्रुम-सद्रवः.२० प्रेता इत्यादि-ततः प्रणामानन्तरं शक्रस्य प्रसन्नस्य वरेण कपयः संग्रामे प्रेताः संग्रामे मृताः प्राणन्तो जीवन्तः सजाताः संवृत्ताः । कीदृशा इत्याहफलिनः फलवन्तः । 'फलबहा॑भ्यामिनन् । अत एव नम्राः नमनशीला: रोचिष्णवः दीपनशीलाः ये दुमास्तेषु सद्रवः सदनशीलाः । ३१३९। दाधेट सि -३।२।१५९।' इत्यादिना सदे रुः ॥ १५८८-भ्रमर कुला ऽऽकुलोल्बण-सुगन्धि-पुष्प-तरुस्
तरुण-मधूक-सम्भव-पिशङ्गित-तुङ्ग-शिखः ॥२१॥ १ इदं नर्दटकवृत्तम्-'यदि भवतो नजौ भजजला गुरु नर्दटकम्' इति लक्षणात् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
-

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514