Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः- ४७३ १६०५-आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्, ॥
सुग्रीवं चा अर्जितं मित्रं, सर्वांश् चाऽऽगामुकान् द्रुतम् आख्यातासीत्यादि-हतं शत्रु रावणं लङ्कायामभिषिक्तं विभीषणं अर्जितं मिन्नं च सुग्रीवं विशिष्टमाख्यातासि कथयितासि । सर्वांश्वासान् द्रुतमागामुकान् आगमनशीलान् ॥ १६०६-गन्तारः परमां प्रीतिं पौराः श्रुत्वा वचस् तव, ॥
ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्. १६ गन्तार इत्यादि-त्ववचनं श्रुस्वा पौराः पौरजना परमां प्रीतिं गन्तारो गमिष्यन्ति । एतन्मदागमनवृत्तान्तं श्रुत्वा सम्मुखीन: प्रतिबिम्बाश्रय इव सम्मुखो भूत्वा मामेवागमिष्यति भरतो ध्रुवमसंशयम् ॥ १६०७-गते त्वयि पथा ऽनेन वयमप्यहितास्महे, ॥
लब्धाहे ऽहं धृति प्राप्ते भूयो भवति सम्मुखे. ॥१७॥ गत इत्यादि-स्वयि पथा अनेन मयाभिहितेन गते वयमपि अंहितामहे प्रयातासः 'अहि गतौ' । भूयश्च पुनरपि भवति त्वयि सम्मुख प्राप्ते धृतिमहं लब्धाहे प्राप्तोस्मि । २२५०। ह एति ।७।४।५२।' इति तासि सकारस्य हकारः॥ १६०८-गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीव-राक्षसौ ।
उक्तवान् श्वोऽभिगन्तास्थो युवां सह मया पुरम्.१८ गते तस्मिन्नित्यादि-तस्मिन् हनूमति गृहीतार्थे अवगतसन्देशार्थ गते सति रामः सुग्रीवराक्षसावुक्तवान् । युवां मया सह श्वो दिने अभिगन्तास्थः पुरमयोध्यां गमिष्यथः॥ १६०९-द्रष्टास्थस् तत्र तिस्रो मे
मातृस् तुष्टाऽन्तराऽऽत्मनः॥ आत्यन्तीनं सखि-त्वं च
प्राप्तास्थो भरता ऽऽश्रयम् ॥१९॥ द्रष्टास्थ इत्यादि-तन्त्र च पुनः पुर्या नोऽस्माकं तिस्रो मातृः कौसल्याद्याः। स्वस्त्रादित्वान्न ङीप् । शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम् । तुष्टान्तरात्मनः हृष्टमानसाः द्रष्टास्थः । भरताश्रयं च भरतनिबन्धनं च सखित्वं मित्रत्वं आत्यन्तीनं अत्यन्तं गामीत्यस्मिन्नथे १८१२॥ अवारपार-५।२।११।' इत्यादिना खः । प्राप्तास्थः लब्धासाथे ॥ १६१०-नैवं विरह-दुःखेन वयं व्याघानितास्महे, ॥
श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः, ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514