Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४७६ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण - रूपे नवमो वर्गः,
१६१८ - स्थानं नः पूर्व - जानार्मियर्मधिकर्मसौ प्रेयसी पूरयोध्या,
दूरादालोक्यते या हुत- विविध- हविः - प्रीणिता शेप - देवा ॥
सो ऽयं देशो, रुदन्तं पुर - जनमखिलं यत्र हित्वा प्रयातौ,
आवां सीते ! वना ऽन्तं सह धृत- धृतिना लक्ष्मणेन क्षपाऽन्ते ॥ २८ ॥
स्थानं न इत्यादि - हे सीते ! असौ पुरी नोऽस्माकं पूर्वजानां स्थानमधिकं अतएव च प्रेयसी प्रियतमा । दूरादालोक्यते उच्चप्रासादयोगात् । या हुतैर्विविधैर्हविर्भिराज्यादिभिः प्रीणिता अशेषदेवा यत्र देशे । पुरजनमखिलं समस्तं रुदन्तं क्षपान्ते उषसि हित्वा त्यक्त्वा छलेन आवां वनान्तं प्रयातौ सोऽयं देशः सह लक्ष्मणेन धृतष्टनिना धृतसौमनस्येन ॥
१६१९ - तूर्याणामथ निःस्वनेन सकलं
लोकं समापूरयन्
विक्रान्तैः करिणां गिरीन्द्र- सदृशां क्ष्मां कैम्पयन् सर्वतः ॥
सा ऽऽनन्दा ऽश्रु-विलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राठो भरतः स मारुतिरलं नम्रः समं मातृभिः ॥ २९ ॥
तूर्याणामित्यादि - अथानन्तरं भरतो हनुमतः समुपलब्धरामवृत्तान्तत्वात् सानन्दाश्रुविलोचनः सानन्दाश्रुणी विलोचने यस्य तथाभूतः प्रकृतिभिः भमात्यादिभिः सार्धं । सहान्तःपुरः अन्तः पुरेण समम् । मातृभिः कौसल्यादिभिः
१ – स्रग्धरावृत्तम् ' त्रनैर्यानां त्रयेण त्रिमुनियतियुता खग्धरा कीर्तितेयम्' इति लक्षणात् । २– शार्दूलविक्रीडितवृत्तम् । लक्षणमुक्तम् । ३ - ' क्ष्मापयन्' इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 507 508 509 510 511 512 513 514