Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४७४ - भट्टि-काव्य-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे नवमो वर्गः, - १६११-एवं युवां मम प्रीत्यै कल्तास्थः कपि-राक्षसौ!।
गन्तुं प्रयतितासाथे प्रातः सह मया यदि. ॥२१॥ नैवमित्यादि श्लोकद्वयम्-हे कपिराक्षसौ ! प्रातर्मया सह गन्तुं यदि प्रयतितासाथे यत्नं कर्तास्थः । एवं सति युष्मद्विरहदुःखेन वयं न व्याघनितासहे न पीडिता भवितासः । कर्मणि लुट् । चिण्वदिए । 'संयोजितास्महे' इति पाठान्तरम् । न संयोजिता भवितासः । युजेय॑न्तस्य चिण्वदिद । इटोsसिद्धत्वात् '२३१३। णेरनिटि ।६।४।५।' इति गिलोपः । भवन्यां च वियोगजः श्रवः खेदो नानुभविता । अत्रापि चिण्वदिद । एवं मम प्रीत्यै युवां कल्पास्थः सम्पादितास्थः । २३५१। लुटि च क्लृपः ।।३।९३।' इति तङभावपक्षः । २३५२। तासि च क्लपः ।।२।६०।' इतीदप्रतिषेधः । क्लपि सम्पद्यमाने चतुर्थी ॥ १६१२-उत्तवन्तौ ततो रामं वचः पौलस्त्य-वानरौ ॥
अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्त्रो यत् त्वया सह. उक्तवन्तावित्यादि-ततो ऽनन्तरं पौलस्त्यवानरौ विभीषणसुग्रीवौ रामं वच उक्तवन्तौ । हे काकुत्स्थ ! त्वया सह यदावां गन्तास्वः गमिष्यावः अयमनुग्रहः प्रसाद इति ॥ १६१३-अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया ॥
अपि प्राप्य सुरेन्द्र-त्वं, किं नुप्रत्तं, त्वयाऽऽस्पदम् ॥ अनुमन्तावहे इत्यादि-किं च सुरेन्द्रत्वं देवेन्द्रवं प्राप्तावप्यावां त्वया सह भवन्तमुत्पद्यमानं विरहं वियोगं नानुमन्तास्महे किं पुनस्त्वया प्रत्तं दत्तम् । '३०७८। अच उपसर्गात्तः ।७।४।४७।' आस्पदं राज्यं प्राप्तवन्तौ । भत्र सुतरामेव त्वया सह वियोगो न युज्यते । भवन्तं विरह मिति वर्तमानकालः नानुमन्तास्वह इति भविष्यस्कालेन सम्बध्यमानः साधुर्भवति २८२४॥ धातुसम्बन्धे प्रत्ययाः ।३।४।१।' इति । एतावल्लुड्विलसितम् ॥ ___ अथ सर्गभङ्गा) छन्दोन्तरेण तच्छेषभूतमर्थवशात् प्रकीर्णकक्रियाविलसितं दर्शयन्नाह१६१४-ततः कथाभिः समतीत्य दोषा
मारुह्य सैन्यैः सह पुष्पकं ते ॥ सम्प्रस्थिता वेग-वशाद-गाधं
प्रक्षोभयन्तः सलिलं पयोधेः. ॥ २४ ॥ तत इत्यादि-कथामिरनन्तरोक्ताभिः दोषां रात्रिं समतीत्य प्रेरयित्वा ततो. नन्तरं ते रामादयः पुष्पक विमानमारुह्य सैन्यैः सह अयोध्यां यातुं संप्रस्थिताः । पयोधेः सलिलमगाधमक्षोभ्यमपि वेगवशात्प्रक्षोभयन्तः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514