Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४७२ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे नवमो वर्गः,
गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुतम् ॥ ११ ॥
स्यन्त्वेत्यादि - अथानन्तरं या गङ्गा दिवः स्यन्त्वा स्यन्त्वा स्रुत्वा स्रुत्वा । '३३४३ | आभीक्ष्ण्ये णमुल् च | ३ | ४ | २२ |' इति चकारात् क्त्वा च आभीक्ष्ण्ये च द्वे भवतः । शम्भोर्मूर्ध्नि स्कन्त्वा गत्वा क्षितिं गता । '३३२१। क्विस्कन्दिस्यन्दोः |६|४|२१|' इत्यनुनासिकलोपप्रतिषेधः । तां पुण्यस्य मूर्तिमिव द्रुतां [ द्रवरूपेण स्थिताम् ] गाहितासे खातुं विलोडितासि ॥ १६०२ - तमसाया महा-नील - पाषाण- सदृश - त्विषः ॥
वना न्तात् बहु मन्तासे नागराऽऽक्रीड - शांखिनः ॥ तमसाया इत्यादि - तमसायाश्च नद्याः वनान्तान् वनोपकण्ठान् महानीलमणेस्तुल्यत्विषोऽतिनीलत्वात् । नागराणां आक्रीडो रन्तव्यं तत्साक्षिणः बहु मन्तासे श्लाघितासे ॥
१६०३ - नगर - स्त्री-स्तन-न्यस्त-धौत- कुङ्कुम-पिञ्जराम् ॥
विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी. १३
नगरेत्यादि - नगर स्त्रियः अयोध्यास्त्रियः तासां स्तनेषु यत्पूर्वन्यस्तं पश्चाद्धौतं कुङ्कुमं तेन पिञ्जरां कपिशां अत एव रम्यां सरयूं विलोक्य भयोध्या पुरी
त्वया गन्ता गन्तव्या ॥
१६०४ - आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चवियोः शिवम् ॥
मातरः सह मैथिल्या,
तोष्टा च भरतः परम् ॥ १४ ॥
आनन्दितार इत्यादि - अयोध्यायां च त्वां दृष्ट्वा मातरः कौसल्याद्याः आनन्दितारः आनन्दिष्यन्ति । आवयोश्च रामलक्ष्मणयोः सह मैथिल्या शिवं कल्याणं प्रष्टारः प्रश्नं करिष्यन्ति । भरतश्च श्रुत्वा परमत्यर्थ तोष्टा प्रीतिं कर्ता । भामन्त्रितार इति पाठान्तरम् । तत्रानित्यण्यन्ता इति दर्शनं तेषां णिज् न भवति । अन्यथा '२३१३ | णेरनिटि | ६ | ४ | १५१ । ' इति णिलोपो न प्राप्नोति । ततश्चामन्त्रयितार इति स्यात् । अथवा आमन्त्रणमामन्त्र इति घञन्तादाचारे सर्वप्रातिपदिकेभ्य इति क्विप् । तदन्तात्तासेरिट् । अतोलोपे च रूपम् । सह मैथिल्योरिति पाठान्तरम् । तत्रापि बहुव्रीहौ ' ८३३ | नघृतश्च |५|४|१५३ | ' इति कप् न भवति समासान्तविधिरनित्य इति कृत्वा ॥
१ - 'गङ्गां मूर्तिमिव द्रुतम्' इति पाठान्तरम् । २ - 'आक्रीड - साक्षिणः' इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514