Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 511
________________ ४७८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण- रूपे नवमो वर्गः, जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा ऽस्त्रम् ॥ ३२ ॥ इदमित्यादि - इदं महाकाव्यम् । उक्तेर्वचनस्य यो मार्गः पन्थाः सुसंस्कृतशब्दलक्षणः प्रपञ्चितः तेन चित्रं विस्मयनीयम् । सुसमाहितं अलङ्कारयुक्तम् । अधिगतं परिज्ञातं सज्जनानां विवदिषतां वक्तुमिच्छतां वदतां च वक्तुं प्रवर्तमानानां सदा विजयं जनयति । सन्निबन्धात् शोभनबन्धात्कारणात् । यथास्त्रमैश्वरं पाशुपतम् । अधिगतमुक्तिमार्ग अधिगतः प्राप्तः प्रज्ञातो मोचनमार्गः क्षेपणमार्गों येन । चित्रं नानावर्णकेन चित्रितत्वात् । सुसमाहितं युधि संग्रामे विजयं विदधाति तद्वत् ॥ तस्मादादरः कर्तव्य इति तत्रापि य एव व्याकरणमधीतवान् तस्यैवात्रादरो युक्त इति दर्शयन्नाह— १६२३ - दीप - तुल्यः प्रबन्धो ऽयं शब्द- लक्षण - चक्षुषाम् ॥ हस्ता ऽमर्ष इवा ऽन्धानां भवेद् व्याकरणाईते. ३३ दीपतुल्य इत्यादि - भयं प्रबन्धो महाकाव्यसंज्ञकः । प्रबध्यते विरच्यत इति कृत्वा । शब्दलक्षणमेव चक्षुर्येषां तेषां दीपतुल्यः । अत एवैतत्काव्याधिगमात् स्वातन्त्र्येणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात् । व्याकरणादृते विना हस्तामर्ष इवान्धानां हस्तामर्ष इवावबोधः यथा अन्धानां हस्तेन घटपटादिवत् । स्वपरामृश्य संस्थानमात्रपरिज्ञानं यथावस्थितस्वरूपपरिज्ञानं एवमनधीतव्याकरणानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्दश्रवणात् ततश्च तत्स्वरूपापरिज्ञानात् कुतोऽप्यन्वशब्दप्रयोग इति ॥ एवं च कृत्वा विदुषो ऽनुरुध्यमानेन मयेदं काव्यं कृतमिति दर्शयन्नाह - १६२४ - व्याख्या - गम्यमिदं काव्यमुत्सवः सु-धियार्मलम्, ॥ हता दुर्मेधसश् चा ऽस्मिन् विद्वत्- प्रियन्तया मया ॥ ३४ ॥ व्याख्यागम्यमित्यादि - व्याख्यागम्यं व्याख्यानाद्विना बोद्धुं न शक्यते । किमर्थमीदृशं कृतमिति चेत् उत्सवः सुधियामलं शास्त्रे क्षुण्णबुद्धीनां परं प्रमोदो जायते । एवं च सत्यस्मिन् काव्ये विषयभूतदुर्मेधसो व्याकरणबाह्याः मया हता नानुगृहीताः । तस्माद्विद्वत्प्रियतया विद्वांसः प्रिया यस्य मम विद्वत्प्रियः तद्भावतत्ता तथा हेतुभूतयेति ॥ 1 Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 509 510 511 512 513 514