Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 508
________________ तथा लक्ष्य-रूपे कथानके 'अयोध्या-प्रत्यागमन' नाम द्वाविंशः सर्गः-४७५ १६१५-सेतुं, महेन्द्र, मलयं स-विन्ध्यं, स-माल्यवन्तं गिरिमृष्यमूकम् , ॥ स-दण्डकाऽरण्य-वती च पम्पां रामः प्रियायाः कथयन् जगाम. ॥ २५ ॥ सेतुमित्यादि-एष सेतुस्त्वदर्थे मया कारितः । एते च महेन्द्रादयः इत्यादि प्रियायाः सीतायाः कथयन् जगाम । अयोध्याभिमुखं गतवान् । १६१६-एते ते मुनि-जन-मण्डिता दिगन्ताः, शैलोऽयं लुलित-वनः स चित्रकूटः, ॥ गङ्गेयं सु-तनु-! विशाल-तीर-रम्या, मैथिल्या रघु-तनयो दिशन् ननन्द. ॥ २६ ॥ एते इत्यादि-शोभना तनुः शरीरं यस्याः सा त्वं हे सुतनु ! कचिदुकारान्तमपि स्त्रियः प्रोक्तमिति वचनात् नदीसंज्ञकत्वात् सम्बुद्धिहस्वत्वम् । 'कृषिचमितनिसर्जिमजिभ्यः' इत्यौणादिकस्तनुशब्दः । एते दिगन्ता मुनिजनैस्तन्निवासिभिर्मण्डिताः भूषिताः । अयं स चित्रकूटः यत्र भरतेनागम्य दृष्टोऽस्मि । लुलितवनोऽस्मद्वेगवशात् । इयं च गङ्गा विशालतीरतया रम्या । एवं मैथिल्या दिशन् कथयन् ननन्द मुदितः ॥ १६१७-शिञान-भ्रमर-कुलाऽऽकुलाऽग्र-पुष्पाः शीता-ऽम्भः-प्रविलय-संप्लवा ऽभिलीनाः ॥ एते ते सु-तनु ! पुरी-जनोपभोग्या दृश्यन्ते नयन-मनोरमा वना ऽन्ताः ॥ २७॥ शिक्षानेत्यादि-हे सुतनु ! एते वनान्ताः पुर्या दृश्यन्ते । शिक्षानैः कूजद्भिः भ्रमरकुलैः आकुलाग्राणि पुष्पाणि येषां वनान्तानाम् । प्रविलीयतेऽस्मिन्निति प्रविलयः। ३२३१। एरच् ।३।३।५६।' निमिलीभ्यां खलचोः प्रतिषेधो वक्तव्यः । '२५०९। विभाषा लीयतेः ।६।१॥५१' इत्यात्वं न भवति । शीताम्भसः प्रविलयः कुल्या तेन यः संप्लवः सापना तेनाभिलीनाः कुल्यया सिञ्चमानमूलत्वात् । अत एव नयनमनोरमाः रमयतीति कर्तर्यच् । पश्चात् षष्ठीसमासः । एवं च पुरीजनानामयोध्यानिवासिनां उपभोग्याः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514