Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य रूपे कथानके 'सीता संशोधनं' नामैकविंशतितमः सर्गः - ४६९ शिखर - शिला ऽन्तराल - परिक्लृप्त-जला Sवसरः स- रस- फल- श्रियं स विततान सुवेल - गिरिः. ॥२१॥ भ्रमरेत्यादि -- वरेण च स सुवेलगिरिः सरसां अमिनवां फलश्रियं विभूतिं विततान विस्तृतवान् । भ्रमरकुलैराकुला व्याप्ता उल्बणाः सुगन्धयश्च सपुष्पास्तवो यत्र गिरौ । तरुणानां अभिनवानां मधूकानां यः सम्भवः तेन पिशङ्गितास्तुङ्गाः शिखाः शिखराणि यत्र । शिखरशिलानामन्तरालेषु परिक्लृप्ता जलावसरा जलाधारा यत्र । जलमपसरत्येभ्य इति '३२३२| ऋदोरप् । ३।३।५७|' ॥ १५८९ - संवद्भिः स - कुसुम - रेणुभिः समीरै
निर् बहु-फल- धारिभिर् वना ऽन्तैः ॥ श्योतद्भिर् मधु-पटलैश् च वानराणाम् आप्यानो रिपु-वध-सम्भवः प्रमोदः ॥ २२ ॥
संवाद्भिरित्यादि - सम्भवत्यस्मादिति सम्भवः । रिपुवधः सम्भवो यस्य प्रमोदस्य स वानराणामाप्यानः वृद्धिं गतः । व्यवस्थितविभाषाविज्ञानात् सोपसर्गस्य प्यायतेः पीभावो न भवति । ' ३०१९ | ओदितश्च | ८ |२| ४५|' इति निष्ठानत्वम् । कैराप्यानः समीरैः सकुसुमरेणुभिः संवाद्भिः वहद्भिः । वनान्तैः फलभरधारिभिः । अत एवाननैः । मधुकरपटलैः श्योतद्भिः मध्वित्यर्थात् ॥ १५९०-आयान्त्यः स्व-फल- भरेण भङ्गुरत्वं
1
भृङ्गाऽऽली - निचय-चिता लतासू तरूणाम् ॥ सा ssमोदाः क्षिति-तल- संस्थिताऽवलोप्या भोक्तृणां श्रमम॑दयं न नीतवत्यः ॥ २३ ॥ इति भट्टिकाव्ये तिङन्तकाण्डे लङ्-प्रदर्शनो नाम एकविंशतितमः सर्गः ॥
आयान्त्य इत्यादि - तरूणां लताः स्वफलभरेण भङ्गुरत्वं सुभेद्यत्वमायान्त्यः गच्छन्त्यः । सामोदाः अतएव भृङ्गाली निचय चिताः । क्षितितल संस्थितैरेवाव लोप्टुं शक्याः । भोक्तृणां कपीनां श्रमं चित्तकायक्लेशं उदयं वृद्धिं न नीतवत्यः ।' विनीतवत्यः' इति पाठान्तरम्। उत्पूर्वादयतेः कर्तर्यच् । वृद्धिमुपगच्छन्तं श्रममपनीतवत्य इत्यर्थः ॥ इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येचतुर्थे तिङन्तकाण्डे लक्षण-रूपेऽष्टमः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके 'सीता संशोधनं' नाम एकविंशतितमः सर्गः ॥२१॥
१२ - प्रहर्षिणी वृत्तम् —'नौजौगस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् । भ० का० ४०
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514