Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 500
________________ तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं नामैकविंशतितमः सर्गः-४६७ ब्रह्मणः सर्ववेदित्वात् कथं शङ्का स्थात् अत्राधानं हेतुः शङ्कात्यागश्च हेतुमान् । असिन् लिनिमित्ते क्रियातिपत्तौ भूते लुङ् । अत्रानाधानक्रियायास्तद्विरुद्धादानोपनिपातादतिपत्तिर्गम्यते । अथवा नाहमवकल्पयामि यदीदं परगृहोषिताया अग्निप्रवेशशोधनं युक्तं न्याय्यम् तत् भवान् किं चित्रमकरिष्यत् विस्मयनीयं कृतवान् । एवं राज्ञः लोकस्य व्यवस्थार्थ विशेष प्रवर्तनात् । २८०२। अनवक्लवमर्षयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवक्लप्तिश्च लिनिमित्तं तस्मिन् लिनिमित्ते क्रियातिपत्तौ भूते लुङ् । अत्र चित्रीकरणक्रियाया अतिपत्तिस्तविरुद्ध स्याचित्रीकरणस्योपनिपातादतिपत्तिर्गम्यते । यदि भवान् परीक्ष्य सीतायाः परिग्रहणमकरिष्यत् लोकोऽपि तथाकरिष्यत् ॥ प्रधानानुयायिस्वाल्लोकस्येति दर्शयन्नाह१५८२-प्रावर्तिष्यन्त चेष्टाश् चेद-याथातथ्य-वत् तव, ॥ अनुशास्ये त्वया लोके रामाऽवय॑स्तरां ततः ॥१५॥ प्रावर्तिप्यन्तेत्यादि-चेद्यदि तव लोकव्यवस्थाकारिणश्चेष्टाः कर्माणि आयाथातथ्यवत् यथा अज्ञाना असमीक्ष्यकारितया प्रवर्तन्ते तद्वत्प्रावर्तिष्यन्त तथाप्रवर्तनात् त्वया आनुशास्ये व्यवस्थायां स्थाप्ये लोके हे राम! ताश्चेष्टा अवत्स्यस्तरां अतिशयेन प्रावृतिष्यन्त न च तव प्रवृत्ताः। अत्र रामचेष्टाप्रवर्तनं हेतुः लोकचेष्टाप्र. वर्तनं च हेतुमत् । तस्मिन् लिनिमित्ते क्रियातिपत्तौ भूते भविष्यति लङ् । अत्रापि परीक्ष्यस्वीकरणलक्षणक्रियायास्तद्विरुद्धपरीक्षितोपादानानतिपत्तिः । अयाथातथ्यवदिति वतिप्रत्ययान्तं क्रियाविशेषणम् । १७८९॥ यथातथायथापुरयोः पर्यायेण 1७।४।३१।' इति नजः पर्यायेण वृद्धिः । प्रावत्स्यस्तरामिति २००२। तिडश्च 1५।३।५६।' इत्यातिशयनिकस्तरः। '२००४। किमेतिङ्-५।४।११॥' इत्याम् । १४०। नश्छव्यप्रशान् ।।३।७।' इति रुत्वं पूर्वस्यानुस्वारः ॥ १५८३-प्रणमन्तं ततो राममुक्तवानिति शङ्करः ॥ 'किं नारायणमात्मानं ना ऽभोत्स्यत भवानजम्. १६ प्रणमन्तमित्यादि-ततो ब्रह्मवचनानन्तरं शङ्करो महादेवः वक्ष्यमाणं वचनं राममुक्तवान् । प्रणमन्तं तमेव राममित्यर्थात् । किन्नाम तत् यथा आत्मानम् नारायणमजं नित्यं अस्मिन् प्रादुर्भावे भवान्नाभोत्स्थत न बुद्धवान् अपि तु तथाविधं कर्म कुर्वन् ज्ञातवानेव । अत्र नारायणानवबोधक्रियायाः तद्विरुद्धबोधनोपनिपातादृतिपत्तिः ॥ तदेव दर्शयबाह१५८४-को ऽन्यो ऽकर्त्यदिह प्राणान् दृशानां च सुर-द्विषाम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514