Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 498
________________ तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं'नामैकविंशतितमः सर्गः-४६५ चित्रीकरणे च ।३।३।१५०।' इत्यत्र '२८०५। यच्चयत्रयोः ।६।३।१४८।' इत्यनुवतते । यच्चयत्रशब्द उपपदे गम्यमानं चित्रीकरणं लिनिमित्तं तस्मिन् लिङ्निमित्ते क्रियातिपत्तौ सत्यां भूते लङ् । अत्र कृच्छ्राभिप्रायानुवर्तनक्रियायास्तस्यां योषिदनुवर्तनं सामग्र्यभावागम्यते । अन्यच्च स्वभावत एव योषित् कातरां भवति ततश्च परगृहावस्थित्या दुष्टेति क्रोधादहमवक्षिप्तेति त्रासादस्यां विपन्नायां प्रच्छन्नविषयं गतायां सत्यां किं किमालप्स्यथाः फलं नाहमवकल्पयामि । किं नाम तत्र फलं यदाप्स्यसि नैवेत्यर्थः । '२८०२॥ अनवक्लत्यमर्षयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवक्लप्तिश्च लिडो निमित्तं तस्मिन् लिनिमित्ते क्रियातिपत्तौ सत्यां भविष्यति लङ् । अत्र फलप्राप्तिक्रियायास्तद्वदन्यसामग्र्यभावात् गम्यते । 'किंकिलालप्स्यथाः फलम्' इति पाठान्तरं तदयुक्तं '२८०३। किंकिलास्त्यर्थेषु ।३।३।१४६।' इत्येतस्य लिनिमित्तत्वाभावात् ॥ अथवा नाहं दुष्टेत्यवगच्छन्त्या योषितस्त्रास एव नास्ति येन गर्हितं मरणमाचरेदिति दर्शयन्नाह१५७६-यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता ॥ __तदसूया-रतौ लोके तस्या वाच्या ऽऽस्पदं मृषा.॥९॥ यत्रेत्यादि-गर्हितमेतत् यच्च यत्र या भवति स्त्री दोषवर्जिता शुद्धचरित्रापि साध्वसात् पतित्रासादमरिष्यत् मृताभूत् नैवेत्यर्थः । अदुष्टायाः साध्वसाभावात् । गर्हायामित्यत्र यच्चयत्रशब्द उपपदं गर्दा च लिनिमित्तं तस्मिन् लिनिमित्ते क्रियातिपत्तौ सत्यां भूते वा लुङ् । अत्र मरणक्रियायास्तविरुद्धसाध्वसे परनिपातादतिपत्तिर्गम्यते । यदि हि त्रासात् म्रियेत दोष एव स्यादि. त्याह । तन्मरणं लोकेऽस्मिन्नसूयारतौ सत्स्वपि गुणेषु दोषाविष्करणपरे तस्या अदुष्टाया योषितः वाच्यास्पदं वचनीयाश्रयं मृषा अलीकमेव दुष्टैवेयम् मृषा अलीकमेव येन प्रच्छन्नमृतेति । यदि मरणमकरिष्यत् मृषावचनीयास्पदम. भविष्यत् इति क्रियातिपत्तौ योज्यम् । अन्यथा वाक्यमिदमशरीरकं स्यात् इदमवगच्छन्त्यानया प्रच्छन्नमरणं नानुष्ठितम् ॥ १५७७-अमंस्थत भवान् यद्वद् तथैव च पिता तव ॥ __ नाऽऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः.१० अमस्यतेत्यादि-यद्वद्यथा भवानमंस्थत दुष्टेति ज्ञातवान् तथैतद्यदि नान्यथा तदा तव पिता दशरथः साक्षात्प्रत्यक्षो विमानस्थः सन् नागमिष्यत् नागतवान् स्यात् । अत्र दुष्टताभवनं हेतुः दशरथागमनं च हेतुमत् । तयोर्हेतुहेतुमत्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते लुङ् । अत्र दुष्टताभवनक्रिया. यास्तद्विरुद्धादुष्टत्वोपनिपातादतिपत्तिः ॥ १५७८-ना ऽकल्प्स्यत् सन्निधिं स्थाणुः शूली वृषभ-वाहनः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514