Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य रूपे कथानके 'सीता संशोधनं' नामैकविंशतितमः सर्गः -४६३ इदानीं सीतारावणयोर्यच्चेष्टितमासीत् तच्चानेनावधार्य प्रकाशयन्नाह - १५७० - अपि तत्र - रिपुः सीतां ना ऽर्थयिष्यत दुर्मतिः, ॥
क्रूरं जात्व॑व॒दिष्यच् च जात्व॑स्तोष्यच्छ्रियं स्वकाम्. ३
1
अपीत्यादि - तत्र रिपुः स भवान् रिपुः स रावणः भवच्छब्दो ऽर्थाद्गम्यते तेन '१९६३ । इतराभ्योऽपि दृश्यन्ते |५|३ | १४ |' इति त्रल् । अपि बाढं नार्थयिष्यत दुर्मतिरदुष्टचेता अभविष्यत् तदा सीतां बाढं नार्थयिष्यत । भार्या मम भवेति न प्रार्थितवान् । '२८०९ । उताप्योः समर्थयोः | ३ | ३ | १५२ |' इति । अन्नापिशब्दो बाढार्थः लिङ्गनिमित्तं तस्मिन् लिङ् निमित्ते क्रियातिपत्तौ सत्यां भूते नित्यं लृङ् । तत्र '२७९८ । वोताप्योः | ३ | ३ | १४१ । ' इति अनुवर्तते । अन्न्रार्थनक्रियायाः तद्विरुद्धदुर्मतित्वोपनिपातादतिपत्तिर्गम्यते । अर्थनमर्थः याचनं । तत्करोतीति णिच् । नाहमवकल्पयामि यद्यदुर्मतिरभविष्यत् क्रूरं परुषं जातु कदाचित् नावदिष्यत् नोक्तवान् । श्रियं विभूतिं स्वकामात्मीयां ईदृशी मे विभूतिरिति नास्तोष्यत् न स्तुतवान् स्तुतवांश्च । '२८०४। जातु यदोर्लिङ् । ३।३।१४७।' इत्यत्र जातुशब्दोऽनवक्लृप्तिश्च लिडो निमित्तं तत्र । '२८०२ । अनवक्रुत्यमर्षयोः - १३ | ३|१४५१' इति वर्तते । क्रूराभिधानक्रियाया विभूत्याः स्तवनक्रियायाश्च तद्विरुद्धदुर्मतित्वोपनिपातादतिपत्तिः । केचित् 'लडपिजावो:' इत्येतदुदाहरन्ति तदयुक्तं तस्यालिङ्गनिमित्तत्वात् ॥
१५७१ - सङ्कल्पं ना sकरिष्यच् च तत्रैर्यं शुद्ध-मानसा, ॥
सत्या॒ऽमर्षम॑वाप्स्यस् त्वं रामः सीता - निबन्धनम् ॥४॥
सङ्कल्पमित्यादि -- तत्रेयं शुभमानसेति नाहमवकल्पयामि यदीयं शुद्धमानसा नाभविष्यत् । तत्र तस्मिन् रावणे इत्थं प्रीयमाणेऽपि सङ्कल्पमभिप्राथमकरिष्यत् कृतवती स्यात् । न च कृतवती शुद्धमानसत्वात् । सत्यामर्षमवाप्त्यस्त्वमिति । हे राम ! यद्यशुद्धमानसा अभविष्यत् तदा सीतानिबन्धनं सीताहेतुकम् अमक्रोधं सत्यसंभूतमवाप्स्यस्त्वं प्राप्तः स्याः नतु सत्यं यतः शुद्धमानसा । '२८०२ । अनवक्कृत्यमर्षयोरकिंवृत्तेऽपि | ३ | ३ | १४५ |' इत्यत्र अनवक्लृत्यमर्षयोर्लिङ्गनिमित्तं तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ भूते वा लुङ् । तत्र '२७९८ । वोताप्योः| ३ | ३|१४१ |' इत्यधिक्रियते । अन्त्र सङ्कल्पक्रियायाः सत्यामर्षक्रियायाश्च तद्विरुद्धशुद्धमानसत्वोपनिपातादतिपत्तिः ॥
अन्यथास्मिन्वस्तुनि नाहमेवैकः प्रमाणं भवानपि प्रमाणमेवेति दर्शयन्नाह - १५७२ - त्वया द्रक्ष्यत किं ना ऽस्याः
"
शीलं संवसता चिरम् ॥ अदर्शिष्यन्त वा चेष्टाः
कालेन बहुना न किम्. ॥ ५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514