Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 495
________________ ४६२ भट्टि-काव्ये-चतुर्थे तिहन्त-काण्डे लक्षण-रूपे ऽष्टमो वर्गः, -- मामित्यादि-हे वह्ने ! यद्यहं दुष्टा तदा ज्वलितवपुः ज्वलितशरीरः सन् । मित्त्वाभावपक्षे रूपम् । प्लुषाण देहं मर्त्यलोकात् मोचय । यथा वा क्षतमलिनां विशुद्धां सुहृदिव संरक्ष वा । आमन्त्रणे कामचारकरणे लोट् । एषाहं त्वां विधिवत् सम्यक् प्राप्ता ऋतुषु यज्ञेषु वसोः राज्ञः आज्यधारेव । उदीर्णदीतिमालं उद्गतज्वालासमूहं त्वामिति ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये. चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमः परिच्छेदः (वर्गः) तथा लक्ष्यरूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः ॥२०॥ एकविंशः सर्गः' इतःप्रभृति लङमधिकृत्य विलसितमाह-तत्र लिनिमित्ते लुङ् क्रियातिपत्तौ भविष्यति भूते च हेतुहेतुमतोर्लिङित्येवमादिकं लिडो निमित्तं क्रियातिपत्तिश्च । कुतश्चिद्वैगुण्यात् क्रियाया अनिष्पत्तिः क्रियातिपत्तिः वैगुण्यं च विधुरप्रत्ययोपनि. पातात् सामध्यभावाच्च द्रष्टव्यम् ॥ १५६८-समुत्क्षिप्य ततो वह्निर मैथिली राममुक्तवान् ॥ 'काकुत्स्थ! दयितां साध्वी त्वमाशङ्किष्यथाः कथम् १ समुत्क्षिप्येत्यादि-ततोऽनन्तरं मैथिली समुत्क्षिप्य हस्ताभ्यामाकाशे धृत्वा वह्निदेहवान् राममुक्तवान् । हे काकुत्स्थ ! साध्वी पतिव्रतामपि दयितां भसाध्वीति त्वं यथाशङ्किष्यथाः शङ्कितवानसि तत्कथं । गर्हितमेतत् न युक्तमाशद्वितुमित्यर्थः । २८००। विभाषा कथमि लिङ् च ।३।३।१४३।' इति । अत्र कथंशब्दो गर्दायां च लिडो निमित्तं । यतस्तत्र गर्हायामित्यनुवर्तते । तस्मिन् लिनिमित्ते क्रियातिपत्तौ लङ् भविष्यतीत्यधिक्रियते । अत्रासाधुत्वं क्रियायाः तद्विरुद्धसाधुत्वाभियोगोपनिपातादतिपत्तिर्गम्यते ॥ तदेव साधुत्वं दर्शयति१५६९-ना ऽभविष्यदियं शुद्धा यद्यपास्यमहं ततः॥ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव! ॥२॥ नेत्यादि-यद्यहमेनां नैवापास्यं नैव रक्षितवान् ततो ऽरक्षणादियं शुद्धा नाभविष्यद् न भूता । येनैव मया रक्षिता तेनैवेयं शुद्धेति भावः । '२०१३॥ हेतुहेतुमतोर्लिङ् ।३।३।१५६।' इत्यतः हेतुहेतुमांश्च लिडो निमित्तम् । तत्र पालनस परिशुद्धेश्च हेतुहेतुमत्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते नित्यं लछ। तत्र २७९८। वोताप्योः ।३।३।१४१॥' इति विकल्पेनाधिक्रियते । अत्रापालनोपनिपातादतिपत्तिर्गम्यते । तदतिपाता तुमतोऽपि पक्षपातात् त्वयैवमाचरितमिति चेदाह । हे राघव! धर्मादन्यत्र भधर्मे न मे पक्षपातोऽनुरागः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514