Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 491
________________ ४५८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे सप्तमो वर्गः, लज्जानतेत्यादि - लज्जया आनता वियोगदुःखस्य पूर्वानुभूतस्य स्मरणेन विला साखा दीना सा पत्युरन्तिकं गत्वा सीता रुदितवती ॥ १५५१ - प्राप्त चारित्र्य-सन्देहस् ततस् तार्मुक्तवान् नृपः ॥ इच्छामे- 'नाssददे सीते ! त्वामहं गम्यतामतः '. २१ प्राप्तेत्यादि - ततोऽनन्तरं नृपो रामः ' रावणः किमस्यां खण्डितचारित्रशीलो न वा' इति प्राप्तचारित्र्यसन्देहस्तामुक्तवान् । किमित्याह - हे सीते ! ममेयमिच्छा यश्वामहं नाददे न गृह्णामि । ' २८१४ | इच्छार्थेषु लिङ्लोटौ १३।३।१५७१' इति लोट् । अतोऽनिच्छातः कारणाद्यथेष्टं गम्यताम् ॥ किमिति नेच्छतीति चेदाह - १५५२ - रावणाऽङ्क-परिश्लिष्टा त्वं हल् लेख करी मम ॥ मतिं बधान सुग्रीवे, राक्षसेन्द्रं गृहाण वा ॥२२॥ रावणेत्यादि - रावणाङ्कपरिश्लिष्टा हरणसमये रावणोत्सङ्गे स्थिता सती परिश्लिष्टा परिमृदितवती त्वं मम हृल्लेखकरी चेतः पीडनशीला । '२९३४। कृञो हेतुताच्छील्य- |३|२|२०|' इति टः । '९८८ | हृदयस्य हृल्लेखयदण्लास-।६।३।५०।' इति हृदादेशः । कमहं शरणं यास्यामीति चेदाह - सुग्रीवे मतिं बधान बनीयाः उत्पादय । राक्षसेन्द्रं विभीषणं वा अनुगृहाण स्वीकुरु ॥ १५५३ - अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा ॥ कामाद् वा याहि, मुच्यन्तार्माशा राम- निबन्धनाः. २३ अशानेत्यादि - भरताद्वा भोगानशान भुङ्क्ष्व । सर्वत्र '२५५७। हलः श्रः शानज्झौ | ३|१|८३ |' इति शानच् । लक्ष्मणं प्रवृणीष्व वा अङ्गीकुरु । 'वृन वरणे' इत्यस्य रूपम् । '२५५८ । प्वादीनां ह्रस्वः | ७|३|८०|' | स्वेच्छया वा याहि भवत्यै यत्र रोचते तत्र गम्यताम् । रामनिबन्धनाः पुनरपि रामो मे पतिर्भूयादित्याशाः मुच्यन्तां त्यज्यन्ताम् ॥ किमिति चेदाह - १५५४ - क्व च ख्यातो रघोर् वंशः क्व त्वं पर- गृहोषिता ॥ , अन्यस्मै हृदयं देहि, ना नभीष्टे घटामहे ॥ २४ ॥ क्व चेत्यादि -- परिशुद्धत्वात्सर्वत्र ख्यातः लोके विदितो रघोवंशः क्व । क च त्वं परगृहोषिता जातकलङ्कत्वात् । द्वयमप्येतद्दूरं मिनम् । सर्वत्र विधौ लोट् । अतोऽन्यस्मै हृदयं देहि चित्तं परस्मै देहि । वयं अनभिमते विषये न घटामहे । निमन्त्रणे लोट् ॥ १५५५ - यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः, ॥ कामास् तेऽन्यत्र तायन्तां, विशङ्कां त्यज मद्-गताम्. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514