Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४५७
मुदेत्यादि-गत्वा च काकुत्स्थं मुदा हर्षेण संयुहि मिश्रय । 'यु मिश्रणे'। तत्र गमनेन स्वयं च संमदं हर्ष प्रामुहि '३२४५। प्रमदसंमदौ हर्षे ।३।३।६८'। सर्वत्र प्रार्थनायां लोट् । हे देवि ! अस्मान्मुहूर्तादूर्व राघवसन्निधिम् । राघवः सन्निधीयते यस्मिन् प्रदेशे इति '३२७१। कर्मण्यधिकरणे च ।३।३।९३।' इति किप्रत्ययः । तं त्वमुपेहि गच्छ ॥ १५४७-ऊर्ध्व मुहूर्तादह्रो ऽङ्ग! स्वामिनी स्म भव क्षितेः॥
राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम्. ॥१७॥ ऊर्ध्वमित्यादि-तथा मुहूर्तादूर्व क्षितेः स्वामिनी भव स्म । अङ्गेति सम्बोधनपदम् । अत्र '२०१९ । स्मे लोट् ।३।३।१६५।' इत्यनेन प्रेषे लोट् । तत्र हि '२८१७। प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।३।३।१६३।' इति औ@मौ. हूर्तिक इति च वर्तते । प्राप्तकालतायां लोट् । राघवसन्निधिं गन्तुं क्षितेः स्वामिनी भवितुं प्राप्तकाला देवी । अन्यथा कालातिकमे मयि विरक्तेति रामो विरज्यते । अन्यच्च इयमस्माकमाशंसा । त्वं राजपत्नीनियोगस्थं महादेव्याज्ञा. करणतत्परं पुरीस्थमयोध्यावस्थितं जनं अनुशाधि विधेयीकुरु । आशिषि लोट् । २४८७॥ शा हौ-६॥४॥३५॥' इति शादेशः । तस्य समानाश्रयत्वादसिद्धत्वे '२४२५। हु-झलभ्यो हेधिः ॥६॥॥१०॥ ॥ १५४८-उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा, ॥
प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्. ॥१८॥ उत्तिष्ठस्वेत्यादि-तस्मात्प्रार्थयेऽहं पत्युमंते अभिप्राये मत्समीपमागन्त. व्यमिति उत्तिष्ठस्व तदर्थ घटस्व । '२६९१॥ उदोऽनूर्वकर्मणि ॥३॥२४॥' इति तङ् । तथा अलङ्कतौ अलङ्करणे यतस्त्र यत्नं कुरु । लज्जया कदाचिन्नोत्सहेतेति पुनःपुनरभिधानं अविरुद्धम् । यथा स्नाहीत्यादि भूषयाङ्गमिति मन्यते तेन वारद्वयमुक्तमेवं अलङ्कत्य त्वं महीपतिं द्रष्टव्यं दर्शनार्हम् । '२०२२॥ अर्हे कृत्यतृचश्व ।३।३।१६९।' इति अवश्यद्रष्टव्ये वा आवश्यके '३३१२। कृत्याश्च ।३।३।१७।' इति संद्रष्टुं प्रतिष्ठस्व गच्छ । प्रार्थनायां लोट् । '२६८९। समवप्र-वि-भ्यः स्थः । १।३।२२।' इति तङ्॥ १५४९-अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा ॥
समारूढवती यान पट्टाऽशुक-वृताऽऽनना. ॥१९॥ अनुष्ठायेत्यादि-श्लोकत्रयं एवमुक्ता भर्तुर्यथोद्दिष्टं नियोगं नानादिकमनुष्ठाय कृत्वा जनकात्मजा मां कश्चिन्माद्राक्षीदिति पट्टांशुकवृतानना यानं शिबि. कामारूढवती पत्युरन्तिकं च गत्वा यानादवतीर्येत्यर्थात् ॥ १५५०-लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला ॥
साऽस्रा गत्वाऽन्तिकं पत्यु दीना रुदितवत्यसौ.२० भ० का० ३९
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514