Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'सीता प्रत्याख्यानं' नाम विंशतितमः सर्गः --४५५
स्वा त्वां पश्यतु । सर्वत्र प्रार्थनायां लोट् । स पवनात्मजस्तथेति यथाज्ञापयसीति प्रतिज्ञाय स्वीकृत्य गत्वा राघवमुक्तवान् ॥
किमित्याह
१५३८ - ' उत्सुकाऽऽनीयतां देवी काकुत्स्थ - कुल - नन्दन ! ॥' क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्
उत्सुकेत्यादि - हे काकुत्स्थकुलनन्दन ! उत्सुका देवी भानीयतामिति । प्रार्थनायां कर्मणि लोट् । एवमुक्ते रावणवधे महति प्रयासेऽकृतेऽपि जनवादभयात् न तया सह वासः कार्य इत्यभिप्रायेण राघवः क्ष्मामङ्गुष्ठेन लिखित्वा विनिश्वस्य स्वरालोक्य आकाशं दृष्ट्वा । स्वरित्यव्ययम् । विभीषणमुक्तवानिति वक्ष्यमाणेन सम्बन्धः ॥
१५३९-उक्तवान् राघवः - ' सीतामानया ऽलंकृतार्मिति. ' ॥ गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः ॥ ९ ॥ उक्तवानित्यादि - सीतामलंकृतामानयेति राघव उक्तवान् । विधौ लोट् । तेन विभीषणेन गत्वा प्रणस्य च मैथिल्युक्ता मधुरं वचः ॥
१५४० - ' जहीहि शोकं वैदेहि ! प्रीतये धेहि मानसम् ॥ रावणे जहिहि द्वेषं, जहाहि प्रमदा-वनम् ॥ १० ॥ जहीहीत्यादि - शोकं पति वियोगजं जहीहि । '२४९८ । जहातेश्च । ६ । ४ । ११६ ॥ ' इत्यन्यतरस्यामित्वमीत्वं च । ' २४९९ । आच हौ | ६ |४| २१७|' इत्यकार इति रूपन्त्रयम् । प्रीतये प्रीत्यर्थं पुनर्मानसं धेहि घटयस्व । '२४७१ । ध्वसोरेद्धावभ्यासलोपश्च | ६|४|११९ | ' । रावणे रावणविषये द्वेषं जहिहि तस्य विनष्टत्वात् । प्रमदावनं अशोकवनिकां जहाहि । पत्युरन्तिकं याहीत्यर्थः । सर्वत्र विधौ लोट् ॥ १५४१ - स्नाद्यनुलिम्प धूपाय,
"
निवरस्वाऽऽविध्य च स्रजम् ॥ रत्नान्याssमुञ्च, संदीठे
हविर् जुहुधि पावके, ॥ ११ ॥
१५४२ - अद्धि त्वं पञ्च-गव्यं च,
छिन्धि संरोध - जं तमः, ॥ आरोह शिविकां हैमीं,
द्विषां जहि मनो- रथान् ॥ १२ ॥
स्त्राहीत्यादि - लोकद्वयं मिश्रेण व्याख्यातम् । स्नाहि स्नानं कुरु । ततः कायशुयर्थ सदनुपहतं पञ्चगव्यमद्धि भक्षय । '२४२५। हु-झलभ्यो हेर्धिः | ६|४|१०१ | '
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514